SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ साहित्यदर्पणः। [ पञ्चमः परिच्छेद एतच्च विविच्योक्तं रसनिरूपणप्रस्तावे इति सर्वमवदातम् । इति साहित्यदर्पणे व्यञ्जनाव्यापारनिरूपणो नाम पञ्चमः परिच्छेदः । सादेराखादाय स्वीकृता रसनाख्यां वृत्रिमप्यत्रैवान्तर्भावमाह-रसव्यक्तौ रसप्रतीतौ । पुनः । परे नैयायिका इत्यर्थः । रसनाख्याम् । वृत्तिम् एनामेवे'ति शेषः । विदुः । अयमभिप्रायः-रसनावृत्तिय॑अनावृत्तिश्च न वस्तुतो विलक्षणा, किन्तु नाममात्रतः । तस्मात् , यथा-वस्त्वलङ्काराणां प्रत्ययार्थ व्यञ्जनाऽवश्यमङ्गीकार्य्या, तथा रसादेः रसनार्थ कैश्चित स्वीक्रियमाणा रसनाख्या या वृत्तिः साऽपि न ततो विलक्षणा, अभिधाऽदिवत् तस्या अनियन्त्रितव्यापारत्वात् । इति ॥ २९७ ॥ अत एव-ग्रन्थस्य पूर्वोत्तरविरोधं पारहरन्नाह- एतच्चेत्यादिना । एतत् । 'यत् परे विदुस्त' दिति शेषः । च । रसनिरूपणप्रस्तावे । विविच्य निर्णीय । उक्तम् । इति । सर्वम् । अवदातमपहतपापम् । प्रकरणं समापयन्नाह-इतीत्यादि । इति । साहित्यदर्पणे 'श्रीविश्वनाथकविराजकृत' इति शेषः । व्यअनाव्यापारनिरूपणो व्यञ्जनाया व्यापारनिरूपणं प्रकृत्य रचित इत्यर्थः । नाम । पश्चमः। परिच्छेदः । न विषयोऽनुमितेर्नच यः स्मृतेः स्फुरति यः परमात्मतया सताम् । अनभिधेयमलक्ष्यमबोध्यम-भ्युदयितं दयितं तमुपास्महे ॥ इति श्रीशिवनाथसूरिसूनुना श्रीशिवदत्तकविरत्नेन रचितायां रुचिराऽऽख्यायां साहित्यदर्पणव्याख्यायां पञ्चमः परिच्छेदः समाप्तः ।
SR No.023033
Book TitleSahitya Darpan Nam Alankar Sandarbh
Original Sutra AuthorN/A
AuthorVishvanathak Viraj, Shivdutta Kavi
PublisherKshemraj Krushnadas Shreshthi
Publication Year1838
Total Pages910
LanguageHindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy