________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः ।
४०५
धेरभ्रमणमनुमापयती'ति यद्वक्तव्यं तत्रानैकान्तिको हेतुः । भीरोरपि गुरोः प्रभोर्वा निदेशेन प्रियानुरागेण वा गमनस्य सम्भवात् । पुंश्चल्या वचनं प्रामाणिकं न वेति सन्दिग्धोऽसिद्धश्च । 'जलकेलि -' इत्यत्र : " य आत्मदर्शनादर्शनाभ्यां चक्रवाकविघटन सङ्घटनकारी स चन्द्रएवे ' त्यनुमितिरेवेयमिति न वाच्यम् । उत्रासकादावनैकान्तिकत्वात् । ' एवंविधोऽर्थ एवंविधार्थबो
नद्यास्तीरं तत्र । सिंहोपलब्धेः । 'विभाषा गुणेऽस्त्रियाम् ।' २ । ३ । २५ इत्यत्र ' विभाषे 'ति योगविभागाद्गुणे स्त्रियां च क्वचिदिति पञ्चमी । अभ्रमणम् (कर्म) । अनुमापयति । इतीत्येवम् । यत् । 'व्यक्तिविवेककाराणा' मिति शेषः । वक्तव्यम् । 'अस्ती 'ति शेषः । तत्र तस्मिन्ननुमाने । अनैकान्तिको न एकान्तिक इति । व्यभिचारीत्यर्थः । एक एवान्तः परिच्छेदो यस्य स एकान्तः, तं रक्षतीत्यैकान्तिकः । ' रक्षति । ४ । ४ । ३३ इति ठक् । यद्वा- एकान्तमाहेत्यैकान्तिक: । 'आही प्रभूतादिभ्यः' इति ठक् । हेतुः । कुत इत्याह-भीरोर्भयशीलस्य । अपि किं पुनर्वीरस्येति भावः । गुरोराचार्यस्य पितुर्वा पूज्यस्य वा । 'गुरुस्त्रिलिङ्गयां महति दुर्जरालघुनोरपि । पुमान् निषेकादिकरे पित्रादौ सुरमन्त्रिणि ॥' इति मेदिनीकरः । वाऽथवा । प्रभोः स्वामिनो राज्ञो वा । निदेशेन सङ्केतेनाज्ञया वा । ' निदेश : शासनोपान्तकथनेषु प्रयुज्यते ।' इति विश्वः । वाऽथवा । प्रियानुरागेण प्रियः सुहृद् बान्धवो वाऽभीष्टदेवो वा तस्यानुरागः प्रेम तेन । प्रियाया वाऽनुरागस्तेन । गमनस्य भ्रमणस्य । क्वचित्त ' भ्रमणस्ये' त्येव साधीयान् पाठः । सम्भवादनिबंधितत्वात् । च पुनः । पुंश्चल्याः कुलटायाः । पुमांस चलति प्राप्नोति भर्तारमपहायेति तस्याः । परपुरुषगामिन्या इति भावः । वचनं कथनम् । प्रामाणिकम् । प्रमाणं प्रयोजनमस्यास्तीति । प्रमाणप्रयोजनकमिति भावः । ' प्रयोजनम् ।' ५।१।१०९ इति ठञ् । न । वाऽथवा । 'प्रामाणिक' मिति शेषः । इतीत्यस्मात् कारणात् । सन्दिग्धः सन्देहग्रस्तः । अत एव - असिद्धः । ' हेतु' रिति शेषः । ' सन्दिग्धासिद्धश्व' इति पाठे तु सन्दिग्धोऽसावसिद्ध इत्यर्थः । अत्रेदमवधेयम्- 'भम धम्मिअ-' इत्यादौ व्यक्तिविवेककाराणां विचारदशा धार्मिकः पक्षः, तत्र सत्त्वं शुनक निवृत्त्या गृहान्तिके भीरुत्वपर्यवसायि भ्रमणत्वं, सपक्षः कुमारादिः, विपक्षो व्याघ्रादिः लिङ्गं पुनस्तादृशं भ्रमणं तेन तस्य गोदावरीतीरे सिंहोपलब्धेरभ्रमणमनुमीयते तथा च- 'गोदावरीतीरम् अभी भ्रमणानुचितसिंहवत्वा' दिति स्यादनुमानम् ।' इति स्थितम् । व्यक्तिवादिनस्त्वेवं प्रतिपादयन्ति - 'यत्तद् भीरुभ्रमणं ततद्भयकारणनिवृत्त्युपलब्धिपूर्वक' मिति व्यतिरेकव्याप्तिरेव तावदसिद्धा, भीरोरपि गुरुस्वाम्यादिनियोगवशात् प्रियानुरागादिवशाद्वा भ्रमणकारित्वस्य समुपलब्धेः । अथ - धार्मिकस्य शुनकाद भीरुत्वं पुंश्चल्या वचनमात्रेण प्रदर्शितम्, तच्च प्रमाणभूतमस्ति न वेत्यपि सन्देह एव । प्रमाणभूतत्वे शुनकाद् भीरोः सिंहाद् भीरुत्वं च नैकान्तिकम्, धार्मिकस्य शुनका स्पर्शादिभयशालित्वेऽपि वीरत्वानपाये सिंहाद्भीरुत्वानुपपत्तेः । प्रमाणभूतत्वाभावे तु सर्वमसिद्धमेवेति प्रतिपत्तव्यम् । इति ।
अथ - ' जलकेलि' - इत्यत्र 'जलकेलितरल करतलमुक्तपुनः पिहितराधिकावदनः ।' इत्यस्मिन् । 'उदाहृते पद्ये' इति शेषः । ‘यः । ‘कश्चि’दिति शेषः । आत्मदर्शनादर्शनाभ्यां स्वदर्शनदानतिरोधानद्वारेत्यर्थः । आत्मनो दर्शनादर्शने इति ताभ्याम् । चक्रवाकविघटनसङ्घटनकारी चक्रवाकयोर्दिन एव सङ्गमशीलयोः स्वनानैव प्रसिद्धयोः पक्षिणोविघटनटने वियोगसंयोगौ कर्त्तुं शीलमस्यास्तीति तथोक्तः । 'स्या' दिति शेषः । स निरुक्तलक्षणः । चन्द्रो रात्रिकरश्चन्द्रमाः । एव नत्वन्यः । 'भवती 'ति शेषः । इतीत्येवम् । इयं बुद्धिस्वरूपा । अनुमितिरनुमानम् । 'सङ्गच्छत' इति शेषः । एव । इति । न नैव । वाच्यम् । उत्त्रासकादौ भयप्रदादौ । उत्त्रासयति नितान्तमुद्वे जयंतीति, स आदिर्यस्य तस्मिन् । अनैकान्तिकत्वाद् व्यभिचारित्वादतिप्रसङ्गदोषग्रस्तत्वादिति यावत् । 'हेतोरिति शेषः । अत्रेदमभिधीयते - राधिकावदनं चन्द्रः, आत्मदर्शनादर्शनद्वारा चक्रवाकयोर्विघटनसङ्घटनकारित्वात् । यथाऽऽकाशस्थ चन्द्रः ।' इत्येवमनुमितो 'जलकेलि -' इत्युदाहृते पद्ये रूपकालङ्कारोऽनुमेय एव नतु व्यङ्गयः । इति महिमभमतं न सुमतम् । नहि चक्रवाकयोर्विघटनसङ्घटने करोतीति चन्द्र इत्यनुमातुं शक्यते, धृतशरासनकरालाकृतिकव्याघ्रादीनां दर्शनादर्शनाम्यामपि तत्त्वापत्तेः । राधिकावदनस्य विकाशेन या रात्रिप्रतीतिः, सा तस्य चन्द्राभिन्नत्वेनैव भवेदित्यपि न युज्यते । सूर्य पिधानेऽपि तस्याः सम्भवान् । यदि तु सूर्यस्य मेघादिना पिधाने तमः स्तोमेऽपि रात्रिसाधर्म्यप्रतीतेर्ना -