________________
परिच्छेदः ]
offerreart व्याख्यया समेतः ।
रसादिप्रतीतेः कारणतया ऽभ्युपगन्तव्या । ननु 'देवदत्तोऽय' मित्यादिना देवदत्तादेरिव 'रसोऽय' मित्यादिना रसादेरभिधानं प्रत्यक्षसिद्धमिति कुतो न अभिधाया अत्र स्वीकारः कुतो वा वृत्त्यन्तरान्वेषण प्रयासः ? इत्याशङ्कय परिहरति-- रसादिशब्देन रसादिः रसभावतदाभासादिस्तस्य शब्दो वाचकस्तेन च । शृङ्गारादिशब्देन शृङ्गारादिवाचकशब्देन । 'रसादे'रिति शेषः । वा अभिधेयत्वं वाच्यत्वम् न नैव । 'सम्भवती 'ति शेषः । तस्य रसादेः । तदन्वयव्यतिरेकानुविधानात्तस्य रसादिशब्देन शृङ्गारादिशब्देन वा यद् रसादेर्वाच्यत्वं तस्यान्वयव्यतिरेकौ तदनुविधानात्तदनुविधानापत्तेः । यदि रसादिशब्दद्वारा रसादेर्वाच्यत्वं स्यात् तर्हि 'रसोऽयं ' ' शृङ्गारोऽय मित्यादिशब्देनैव रसादिरप्यवतिष्ठेत न च तथेति भावः । (किश्व किन्तु । ) यत्र । 'तामुद्वीक्ष्य कुरङ्गाक्षीं रसो नः कोऽप्यजायत ।' इत्यादाविति शेषः । ( च पुनः । ) स्वशब्देन स्वं रसादिस्तस्य शब्दो वाचकस्तेन । 'रसोऽय' मिति शब्देन शृङ्गारोऽय' मित्यादिशब्देन वेति यावत् । अभिधानं प्रतिपादनम् । 'रसादे 'रिति शेषः । तत्र तादृशे स्थळे | 'तामुद्वीक्ष्ये' त्यादाविति यावत् । प्रत्युत ( चमत्कारसद्भावो दूरमास्ताम् । ) दोषः सतोऽपि चमत्कारप्रत्ययस्य तिरो. धाता । एव निश्चितः । इति । वक्ष्यामः कथयिष्यामः । 'रसस्योक्तिः स्वशब्देन स्थायिसञ्चारिणोरपि ।' इत्यादिनेति शेषः । ननु रसादेः स्वशब्देनाभिधानं काव्ये एवं दुष्टं न तु लौकिकेऽपि वाक्ये, इति यत्रयत्र ( काव्ये ) दुष्टत्वं तत्रतत्र मा भूत्तादृशी प्रतीतिः किन्त्वन्यत्र स्यान्नामेति चेनेत्याह- क्वचिदलौकिकवाक्य स्वरूपकाव्यातिरिक्ते लौकिके' वाक्ये इत्यर्थः । च । 'शृङ्गारः । अयम् । ' इत्यादौ स्वशब्देन अभिधाने 'सती' ति शेषः । अपि । ' किं पुनर• सती ' शेषः । तत्प्रतीतिस्तस्य रसादेः प्रतीतिरित्यर्थः । न नैव सम्भवति । तस्य रसादेः । स्वप्रकाशानन्दरूपत्वात् स्वप्रकाशः स्वप्रकाशेनैव प्रकाशमानत्वम्, आनन्द आह्लादाभिन्नत्वं तद्रूपत्वात्तन्मात्रस्वरूपत्वादिति यावत् । 'रसोऽयं ' ' शृङ्गारोऽय' मित्येवमभिधीयमानत्वेऽपि तस्य रसादेः खप्रकाशानन्दरूपतया न तथा प्रतीतिः सम्भवति । स्वप्रकाशानन्दस्याभिधेयत्वासम्भवान्मूकानुभूताखादायमानत्वाच्च तस्य न रसादेर्वाच्यत्वम्, किन्तु तेन वाचकेन प्रतीतेस्तिरोभाव इति भावः । अत्रेदं तत्त्वम् -' लौकिकोऽप्याखादप्रत्ययो न वाच्यः, तस्य रसनामात्रप्रास्यत्वात् । कुतः पुनरलौकिकः । तथा हि-न रसादिर्वाच्यः, तस्य सहृदयहृदयमात्रसाक्षिकास्वादानुभवातिरिक्तस्वरूपत्वाभावात् । तदभिधानं प्रत्युत तद्याथात्म्यापह्वनार्थमिति तद्दोष एवेति निर्विवादम् । रसादिमनुभवन् 'ब्रह्मविद् ब्रह्मैव भवति ' ' अविज्ञातं विजानता ' मित्यादिश्रुत्युक्तदिशा रसादिस्वरूप एव भवति, ज्ञातृज्ञानज्ञेयाभावात्; न च ततस्तदभिधानं शक्यते तुच्छ. त्वपरिमेयत्वस्वव्यतिरिच्यमानत्वाद्यापत्तेः । न हि रसादिस्तुच्छोsपरिच्छिन्नत्वात् न च परिमेयोऽखण्डत्वात्, न वा स्वस्माद् व्यतिरिच्यमानः प्रतीत्यन्तरानुभवस्य सहृदयहृदयासाक्षिकत्वात् । व्यतिरिच्यमानश्च तदनुभवादपि व्यतिरिच्यते एव, तस्यानुभवमात्र स्वरूपस्यानिर्वचनीयत्वेन वचनीयत्वानुपपत्तेः । अनिर्वचनीयत्वं च मूकानुभूतास्वादायमानत्वम् । विगलितविभावादिपार्थक्यप्रतीत्यभिन्ना च रसादिप्रतीतिरिति व्यञ्जनैक गम्यत्वं इति स्थितम् । रसादेः : ननु माभूदभिधा रसादिव्यङ्गयबोधनक्षमा, किन्तु तात्पर्याभिधेया वृत्तिरपि कुतो न ? रसादेर्व्यङ्गयत्वाद् व्यङ्ग्यस्य च तात्पतिरिक्तत्वात् । इति चेनेत्याह- अभिहितान्वयवादिभिः सर्वेषामेव कथितानां पदानां परस्परं सम्बन्धो योग्यत्वसाकाङ्क्षत्वादिना स्वत एव भवतीति कथयद्भिरित्यर्थः । ' नैयायिकै 'रिति शेषः । अङ्गीकृता । तात्पर्याख्या तात्पर्यमियाख्या यस्याः सा । वृत्तिः । अपि । किं पुनरभिधा, अस्याः प्रथममेव क्षीणत्वात् । संसर्गमात्रे | संसर्गों योग्यतादिवशात्पदानामेकार्थोपस्थापनार्थो ऽन्वयापरपर्यायः परस्परं पार्थक्यमपहाय 'खले कपोत' न्यायेन युगपदेकत्र सम्बन्धविशेषः स एव संसर्गमात्र तस्मिंस्तथोक्ते । परिक्षीणा सर्वतो भावेन क्षीणा । अत एव न नैव । व्यङ्ग्यबोधिनी व्यङ्गस्य बोधिका । 'सम्भवती 'ति शेषः । व्यङ्गयस्य तात्पर्यादतिरिच्यमानत्वात्तात्पर्यस्य च व्यङ्गचापेक्षया जघन्यत्वात्तात्पर्यमात्रमुद्बोध्य परिक्षीयमाणाया वृत्तेर्व्यज्ञयं पुनरुद्बोधयितुमक्षमत्वमिति भावः । व्ययस्य तात्पर्यादतिरिच्यमानत्वं तात्पर्यस्य च व्यज्ञयापेक्षया जघन्यत्वं व्यङ्गयस्य तात्पर्योद्बोधोत्तरकाले समुद्भासमानत्वादवसेयम् । अभिधया हि पदानां तावन्मुख्योऽर्थ एवोपस्थाप्यते, तात्पर्यवृत्त्या पुनस्तदीयं तायां तारार्थमुपस्थास्यते, तदनन्तरमपि कस्यापि सहृदयहृदयमात्रेणापरिमिततयाऽपरिच्छिन्नतयाऽखण्डतया च तथमत्कारस्यावरणापसारणद्वारोपस्थापनार्थमवश्यमभ्युपेतव्यत्वं व्यञ्जनायाः, तया च तादृशस्तथोद्बोधः स्फुट एव तात्पर्योत्तरभावीति न तिरोहितं प्रेक्षावताम् ।