________________
परिच्छेदः ] रुचिराख्यया व्याख्यया समेतः ।
३७१ "दीपयन् रोदसी रन्ध्रमेष ज्वलति सर्वतः । प्रतापस्तव राजेन्द्र ! वैरिवंशदवानलः ॥२१०॥" इत्यत्रान्वयस्य वेणुत्वारोपणरूपो व्यङ्ग्यः प्रतापस्य दवानलत्वारोपसिद्धयङ्गम् । " हरस्तु किञ्चित्परिवृत्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः। उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि ॥ २११॥" इत्यत्र विलोचनव्यापारचुम्बनाभिलाषयोः प्राधान्ये सन्देहः ।
वाच्यसिद्धयङ्गमुदाहरति-“दीपय'नित्यादिना ।
" हे राजेन्द्र ! रोदसीरन्ध्र रोदस्योावापृथिव्यो रन्ध्र विवरं तत्तथोक्तम् । 'भूद्यावौ रोदस्यौ रोदसी च ते।' इत्यमरः । दीपयन् प्रकाशयन् । एषः । बैरिवंशदवानलो वैरिण एव वंशा वेणवस्तेषां दवो वनं तस्यानल: तद्रूप इति भावः । तव । प्रतापः । सर्वतः । ज्वलति दीप्यते ॥ २१० ॥"
चाच्यसिद्धयङ्गतां दर्शयति-इत्यत्रेत्यादिना ।
इत्यत्र । अन्वयस्य वंशस्य वीरवंशस्थेति यावत् । वेणुत्वारोपणरूपः। व्यङ्ग्यः । स च-प्रता. पस्य । दावानलत्यारोपसिद्धय दवानलस्यारोपस्तस्य सिद्धिस्तत्या अङ्गम् । अयम्भावः-प्रतापस्य दवानलत्वं वाच्यम्, तेन दावानलत्वारोपस्य सिद्धयर्थ वैरिवंशे वंशत्वारोप उपपाद्यः, प्रतापस्य वैरिवंशसंहारमलत्वात् ; स च व्यङ्गयः । आरोपणं च दवानलस्य साक्षादात्मना वैरिवंशत्वासम्भवात् । इत्येवमेष व्यङ्गयोऽर्थस्तस्य वाच्यस्थ सिद्धावङ्गभूतः । अत एव-तर्कवागीशा अप्याहुः, अन्वयस्य कुलस्य प्राथमिके बाधे दवानलस्य शत्रुगोत्रसम्बन्धासम्भवोपलम्मादप्रामाण्योपग्रहः, ततः प्रतापस्य दवानलत्वोपपत्त्या व्यायं कुलस्य बेणुत्वारोपणमभिसन्दधतः श्रोतुवैरिकुलवेणुदवानल इति द्वितीयबोधः । आरोप्यमाणस्य वेणोर्दवानलसम्बन्धित्वमक्षतमित्यनुपपत्तिनिरासेन दवानलवारोपणस्याङ्गं व्यङ्ग्यरूपकं प्रतापस्य दाहकत्वेन कविपरम्परासिद्धपिशङ्गत्वेन च दवानलसादृश्य प्रसिद्धमिति तद रूपकं वैरिकुलस्य वेणुत्वारोपणकारणमिति श्लिष्टनिवन्धनं परम्पारतरूपकमिदम् ।' इति । ननु वेणोर्न व्यङ्गयस्वम्, सत्यपि राजप्रतापवर्णनप्रसङ्गेन प्रसिद्धिबलादभिधयैव वंशपदेन वेणूपस्थितेः । प्रसङ्गात् हि प्रसिद्धिः खलु बलीयसी, अन्यथा निहतार्थत्वविलोपप्रसङ्गात्, प्रसङ्गबलादप्रसिद्धार्थस्यार्थस्य प्रागुपस्थितौ तद्दोषस्यानवसरात् । इति चेत् उच्यते, प्रसिद्धा वेगूपस्थितिरिति कुलाभिने वेगौ दवाभिन्न वैरित्वावगमः । सर्वथा वेणुप्रत्यायन तु व्यञ्जनयव, अभिधाया विरामात् । ननु पुनरभिवयैव वेणुप्रत्यायनं भवतु, किं व्यन्जनोति न शङ्कयम्, एवं सति अभिधायाः पुनरुत्थानकल्पनापत्तेः पुनरुत्थानस्य चासम्भवात् एवं च निहतार्थत्वं श्लेषादावदुष्टम् । इति च बोध्यम् । यथा वा-"गच्छाम्यच्युत : दर्शनेन भवतः किं तृप्तिरुत्पद्यते ? किं त्वे विजनस्थयोर्हत जनः सम्भावयत्यन्यथा । इत्यामन्त्रणभजिसूचितवृथाऽवस्थानखेदालसामाग्लिव्यन् पुलकोत्कराञ्चिततनुर्गोपी हरिः पातु वः ॥” इत्यंत्र तृतीयपादार्थस्य अच्युतादिपदव्यङ्गयोऽर्थः सिद्धावाभूतः ।
सन्दिग्धप्राधान्यमुदाहरति-'हरस्त्वि 'त्यादिना । व्याख्यातपूर्वमिदं पद्यम् ॥ २११॥ उदाहरणीय निर्दिशति- इत्यवेत्यादिना ।
इत्यन । विलोचनव्यापार-चुम्बनाभिलाषयोः तद्रूपयोर्वाच्यव्यङ्गययोरर्थयोरित्यर्थः । प्राधान्ये चमत्कारित्वातिशयस्फूर्ती । सन्देहो विलोचनव्यापार विधानत्य वाच्यस्य किंस्वित् प्राधान्यम् ? आहोस्वित् चुम्बनाभिलाषप्रकटनस्य; इति संशय उभयत्र साधकबाधकमानाभावात् । अयम्भावः-विलोचनव्यापारणं धैर्यपरिवृत्तता चानुभावौ वाच्यौ, तो चेदौत्सुक्यादीन् व्यभिचारिणोऽभिव्यय रतिचर्वणायां पर्यत्रासास्यातां तर्हि 'चुम्बितुमभ्यलाषीदिति व्यङ्गयस्यापि प्राधान्यम् । व्यङ्गयभूताभिलाषाऽनुपदमेवौत्सुक्यादेर्व्यन्जनात् । न च तथा। यदि तु रतिकार्यस्वादाहत्यैव रतिचर्वणायां पर्यवासास्यातां तर्हि वाच्यस्य । न च तथा । विनिगमकाभावात् । तस्मात् उभयोरपि 'प्राधान्यं सन्दिग्धम् । न च तुल्यं प्राधान्यम्, पृथग विधामाभावात् । इति ।