SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ ३६४ साहित्यदर्पणः । २९५ तदेवमेकपञ्चाशद्भेदास्तस्य ध्वनेर्मताः ॥ २८९ ॥ सङ्करेण त्रिरूपेण संसृष्ट्या चैकरूपया । वेद-खांग्निं-शराः शुद्धै-रिपुबाणानिसायकाः ॥ २९० ॥ ['चतुर्थः मिति शेषः । यथा महाभारते । शान्तः 'अङ्गित्वेने 'ति शेषः । एवं परत्र, शेषं स्पष्टम् । एवं यथोक्तेषु प्रबन्धेषु तथा - अन्यत्र वेणीसंहारादिषु वीरादिरिति भावः । एवमभिहिता ध्वनेर्भेदाः समुच्चीय सौकर्य्याय दन्ते- ९९५ तदेवमित्यादिना । २९५ तत् तस्मात् । एवं निरुक्तप्रकारेण । तस्य वाच्यातिशायिव्यङ्गयत्वेनाभिहितस्वरूपस्य । ध्वनेः । एकपवाशद्भेदाः । मताः । अत्र टिप्पणीकाराः - "अत्र ध्वनेर्लक्षणाऽभिधामूलत्वेन विवक्षितवाच्यविवक्षितान्यपरवाच्याख्यौ द्वौ भेदौ, अविवक्षितवाक्यस्यार्थान्तरसङ्क्रमितात्यन्ततिरस्कृतवाच्यतया द्विविधस्य वाक्यपदगतत्वेन द्वैविध्ये चातुर्विध्यम्, विवक्षितान्यपरवाच्यस्य संलक्ष्यक्रमव्यङ्गया संलक्ष्यक्रमव्यङ्गयतया द्वौ भेदौ । संलक्ष्यक्रमव्यङ्गये शब्दशक्तिमूले वस्त्वलङ्काररूपतया द्वैविध्ये वाक्यपदगतत्वेन चातुर्विध्यम्, अर्थशक्तिमूले संलक्ष्यक्रमव्यङ्गयेऽर्थस्य स्वतः सम्भवित्वेन कविप्रौढोसिद्धत्वेन विद्धिप्रौढोक्तिसिद्धत्वेन च त्रैविध्यम् । त्रिविधस्यापि वस्त्वलङ्काररूपतया द्वैविध्ये षडिधत्वम् । षडिधस्यापि व्ययव्यञ्जकतया द्वैविध्ये द्वादशविधत्वम्, द्वादशविधस्यापि प्रबन्धगतत्वेन वाक्यगतत्वेन पदगतत्वेन च विषट्त्रिंशत्कारोऽर्थशक्तिमूलोऽनुरणनध्वनिः, उभयशक्तिमूलो वाक्यगतत्वेनैकविधः, एवं संलक्ष्यक्रमव्यङ्गयध्वनेरेकचत्वारिंशद्भेदाः । असंलक्ष्यक्रमव्यङ्गयो रसादिध्वनिः प्रबन्धवाक्यपद पदेकदेशरचनावर्णगतत्वेन षडिधः । एवं विवक्षितान्यपरवाच्यध्वनेः सप्तचत्वारिंशद्भेदाः । अविवक्षितवाच्यभेदैश्चतुर्भिः सह ध्वनेः प्रथमं शुद्धा एकपञ्चाशद्भेदाः । तेषां नामानि निर्दिश्यन्ते ( १ ) पदगतोऽर्थान्तरसङ्क्रमितोऽविवक्षितवाच्यध्वनिः, (२) वाक्यगतोऽर्थान्तरसङ्क्रमितोऽवि चक्षितवाच्यध्वनिः ( ३ ) पदगतोऽत्यन्ततिरस्कृतोऽविवक्षितवाच्यध्वनिः ( ४ ) वाक्यगतोऽत्यन्ततिरस्कृतोऽविवक्षितवाच्यध्वनिः (५) पदगतः शब्दशक्तिमूल: संलक्ष्यक्रमवस्तुध्वनि: ( ६ ) वाक्यगतः शब्दशक्तिमूल: संलक्ष्यक मवस्तुध्वनिः (७) पदगतः शब्दशक्तिमूल: संलक्ष्यक्रमालङ्कारध्वनिः ( ८ ) वाक्यगतः शब्दशक्ति मूल: संलक्ष्यक्रमालङ्काध्वनि : ( ९ ) पदगतः स्वतः सिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः (१०) पदगतः खतः सिद्धार्थशक्तिमूलो वस्तुनाऽलङ्कारध्वनि: (११) पदगतः स्वतः सिद्धार्थशक्तिमूलोऽलङ्कारेणालङ्कारध्वनिः ( १२ ) पदगतः खतः सिद्धार्थशक्तिमूलोऽलङ्कारेण वस्तुध्वनिः (१३) वाक्यगतः स्वतः सिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ( १४ ) वाक्यगतः स्वतः सिद्धार्थशक्तिमूलो वस्तुनाऽलङ्कारध्वनिः । ( १५ ) वाक्यगतः खतः सिद्धार्थशक्तिमूलोऽलङ्कारेणालङ्कारध्वनिः (१६) वाक्यगतः खतः सिद्धार्थशक्तिमूलोऽलङ्कारेणालङ्कारध्वनि : ( १७ ) प्रबन्धगतः स्वतः सिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः (१८) प्रबन्धगतः खतः सिद्धार्थशक्तिमूलो वस्तुनाऽलङ्कारध्वनि : ( १९ ) प्रबन्धगतः स्वतः सिद्धार्थशक्तिमूलोऽलङ्कारेणाल. ङ्कारध्वनि : ( २० ) प्रबन्धगतः स्वतः सिद्धार्थशक्तिमूलोऽलङ्कारेण वस्तुध्वनिः (२१) पदगतः कविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः (२२) पदगतः कविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुनाऽलङ्कारध्वनिः ( २३ ) पदगतः कविप्रौढो. तिसिद्धार्थशक्तिमूलोऽलङ्कारेणालङ्कारध्वनिः ( २४ ) पदगतः कविप्रौढोक्ति सिद्धार्थशक्तिमूलोऽलङ्कारेण वस्तुध्वनिः (२५) वाक्यगतः कविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः (२६) वाक्यगतः कविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुनाऽलङ्कारयनिः (२७) वाक्यगतः कविप्रौढोक्तिसिद्धार्थशक्तिमूलोऽलङ्कारेणालङ्कारध्वनिः ( २८ ) वाक्यगतः कविप्रौढोक्तिसिद्वार्थशक्तिमूलोऽलङ्कारेण वस्तुव्वनि: ( २९ ) प्रबन्धगतः कविप्रौढोक्तिसिद्वार्थशक्तिमूलो वस्तुना वस्तुध्वनिः (३०) प्रबन्धगतः कविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुनाऽलङ्कारध्वनि : ( ३१ ) प्रबन्धगतः कविप्रौढोक्तिसिद्धार्थशक्तिमूलोऽलङ्कारेणालङ्कारध्वनि : ( ३२ ) प्रवन्धगतः कविप्रौढोक्तिसिद्धार्थशक्तिमूलोऽलङ्कारेण वस्तुध्वनिः ( ३३ ) पदगत: कविनिबद्धप्रौढोक्ति सिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनि: ( ३४ ) पदगतः कविनिबद्धप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुनाऽलङ्कारध्वनि: ( ३५ ) पदगतः कविनिबद्धप्रौढोक्तिसिद्धार्थशक्तिमूलोऽलङ्कारेणालङ्कारध्वनिः (३६) पदगतः कविनिबद्ध -
SR No.023033
Book TitleSahitya Darpan Nam Alankar Sandarbh
Original Sutra AuthorN/A
AuthorVishvanathak Viraj, Shivdutta Kavi
PublisherKshemraj Krushnadas Shreshthi
Publication Year1838
Total Pages910
LanguageHindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy