SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ परिच्छेद: 1 रुचिराख्यया व्याख्यया समेतः । व्यङ्ग्यार्थस्य यथा उअ - 'णिच्चलणि फन्दा' इत्यादि । अनयोः स्वतः सम्भविनोर्लक्ष्यव्यङ्गयार्थी व्यञ्जकौ । ३५७ सङ्क्रान्तत्वेन लक्ष्यन्ते तैश्च सौरभादिशालित्वं व्यज्यते । अलङ्कारध्वनिर्यथा मम - 'मृगमदमानितसुषमे ! सुकृतपताकावलोकने ! सुभगे ! मृदुरुचि हसितं विकिरद्वदनमिदं ते सदोदयते ॥' मृगमदेन मानिता चर्चिताऽलौकिकी शोभा तदधिष्टितं कलेवरं यस्यास्तत्सम्बुद्धौ । सुकृतस्य पुण्यस्य पताकासूचकमवलोकनं दर्शनं यस्यास्तत्सम्बुद्धौ । सुभगे ! मृदुलं हसितं हासं विकिरत्तच्छालीति यावत् । तवेदं वदनं सदोदयते । अत्र हि भानकर्तृत्वस्य चेतनधर्मस्य मृगमदे सुकृतस्य चावलोकनस्य मूर्तत्वात् पताकायाश्च मृर्तधर्मस्य कृतेऽवलोकने चामूर्ते विकिरणस्य पुष्पधर्मस्य तत्कर्तृतायाश्च पाणिधर्मस्य मृदुले हसिते मुखे चन्द्रादिधर्मस्य च मुखे बाधितत्वात्तत्तद्गताः धर्मा अन्येषु हसितादिषु लक्ष्यन्ते । तत्सादृश्यप्रत्यायनं प्रयोजनम् । एवं च प्रसिद्धादुपमानभूतात् कुसुमात्स्मितस्य तथा चन्द्रमसो मुखस्य सर्वकालिकोदयशालित्वेन वैलक्षण्यं प्रतीयत इति व्यतिरेको ध्वन्यते । अलङ्कारेण वस्तुध्वनिर्यथा - 'विक्तं विधे ! पाणिमजातलजं निर्माति यः पर्वणि पूर्णमिन्दुम् । मन्येस विज्ञः स्मृततन्मुखश्रीः कृत्वाऽमौज्झन्मृडमृतिं यस्तम् ॥' अत्र हि अजातलज़त्वोत्त्याऽऽक्षिप्तस्य लज्जास्पदभवनयोग्यताया विज्ञत्वस्य स्मर्तृत्वस्य च मनस्वितागतधर्मस्य पाणौ वाधितत्वात्पाणेरपि मनस्वित्वं संलक्ष्यते - तन्मूलकेन पुनः प्रतीतेनोत्प्रेक्षालङ्कारेण सुमनखिनो यदि कदाचित्कुत्रचित्प्रमायन्ति तर्हि ते तत्क्षणादेव पुनः स्वरूपतामापद्यन्ते । इति व्यज्यते । अलङ्कारेणालङ्कारध्वनिर्यथा मम - 'महतामपि सुभगानां लोचनमिथुनस्य निर्भरं पेया । सा तव तत्र विलोचनसुषमा सुकृतिन् ! बत त्वमिह ।' अस्यार्थः - हे सुकृतिन् ! सुभग विद्वद्वर्य इति वा महतामुत्तमानामुत्कृ टानामिति यावत् । सुभगानां सौभाग्यास्पदानां रूपलावण्या दिसौभाग्यसम्पन्नानामिति यावलोचनमिथुनस्य नेत्रयोर्निर्भरं यथेष्टं पेाssवादनीया दर्शनीयेति यावत् । सा मम सखी तव नायकस्य लोचनमुषमा तत्र तस्मिन्सङ्केतनिलये सोत्कठाssस्ते । त्वं पुनस्तस्या लोचनम्, अस्मिंस्ततोऽतिदूरे प्रदेशे निर्विचारं तिष्ठतीति । अत्र हि-पानकर्तृकायाः पानोचिततायाच सत्ताधस्य रसधर्मस्य च लोचनयोर्नायिकायां चाऽसम्भवात्तत्तद्धर्मा लक्ष्यन्ते । तत्सातिशयत्वप्रतिपादनं च प्रयोजनमिति तन्मूलकेन पुनर्व्याजोक्त्यऽलङ्कारेण लोचनविलोचनयोश्चकोर चन्द्ररूपत्वानभ्यवसितत्वेऽपि तत्स्फुरणस्य सह. दयहृदयवेद्यत्वम् । तेन च समासोक्तिव्यज्यते । अथ लक्ष्यमूलः प्रबन्धगतोऽर्थध्वनिर्यथा - 'निपीय यस्य क्षितिरक्षिणः कथां तथाऽऽद्रियन्ते न बुधाः सुधामपि ।... रसैः कथा यस्य सुधावधीरणी ।... पवित्रमत्राऽतनुते जगयुगे स्मृता रसक्षालनयेव यत्कथा' इत्यादी । अत्र हि कथाया रसधर्मत्वाभावान्निपानं सुधाया रसविशेषमात्रत्वे आदराऽनादाऽनभिज्ञतयाऽऽदरणीयत्वं, कथाया वाक्यसन्दर्भविशेषात्मकत्वेन रससम्पर्कः । कथाया एवं सुकृतविशेषात्मकत्ववैधुर्ये पवित्रीकरणौचित्यं च न सम्भवतीति तेनाssन्यत्राsन्यत्र गता अपि धर्मांस्ततद्गता एव लक्ष्यन्ते इति नलकथाऽलौकिकमहिममहिता सर्वदेव यथेष्ट श्रोतव्येति वस्तु व्यज्यते । इति दिक् । एवं लक्ष्यार्थध्वनिमप्युदाहृत्य व्ययार्थध्वनिमुदाजिहीर्षुराह - व्यङ्ग्यार्थस्येत्यादि । व्ययार्थस्य ध्वन्युदाहरणमिति शेषः । यथा- 'उअ णिश्ञ्चल निष्कंदा ' इत्यादि 'उअ चिलणिफंदा भिसिणीपत्तम्मि रेहइ वलाआ । णिम्मलमरगअभाअणपरिडिआ संखमुत्ति व्व ॥ इत्यादि बोयमित्यर्थः । अयमभिप्रायः - ( पद्यस्यार्थो निरूपितः प्राक् । ) अत्र बलाकाया निप्पन्दत्वेन वाच्येन विश्वस्तत्वं व्यंज्ञयं तेनाऽस्य देशस्य निर्जनत्वं ( रमणयोग्यत्वं ) व्यज्यते । एवं च सङ्केतस्थानमेतदावयो रुचिरमिति कयाऽपि सनिहितमपि प्रच्छन्नं कमपि सुकृतिनं प्रति स्वाभिप्रायमाविष्क्रियते । एवं 'निःशेषच्युतचन्दनमित्यत्र 'उअ णिचलणिएफन्दा' इत्यत्र चोदाहते सन्देहापनुदे व्यञ्जकाऽभिधानमाह--' अनयोरित्यादिना । अनयोर्निर्दिष्टयोरुदाहृतपययोरित्यर्थः । स्वतः सम्भविनोर्वस्तुनोरिति शेषः । लक्ष्यव्यङ्ग्यार्थी व्ययार्थः लक्ष्यार्थश्वेत्यर्थः । व्यञ्जको स्त इति शेषः ।
SR No.023033
Book TitleSahitya Darpan Nam Alankar Sandarbh
Original Sutra AuthorN/A
AuthorVishvanathak Viraj, Shivdutta Kavi
PublisherKshemraj Krushnadas Shreshthi
Publication Year1838
Total Pages910
LanguageHindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy