SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ परिच्छेदः ] रुचिराख्यया व्याख्यया समेतः । . ४१ वाक्यगतो यथा-'उपकृतं बहु तब-' इत्यादि । अन्येषां वाक्यगतत्वमुदाहृतम् । पदगतत्वं यथा'लावण्यं तदसौ कान्ति-स्तद्रूपं स वचःक्रमः । तदा.सुधास्यन्दमभू-दधुना तु ज्वरो महान् ॥१९॥ अथास्य वाक्यनिष्ठत्वं निदर्शयति-वाक्यगत इत्यादिना । वाक्यगतो वाक्यनिष्टोऽ'त्यन्ततिरस्कृतवाच्य इति शेषः । यथा-उपकृतं बहु तत्र इत्यादि । 'उपकृतं बह तत्र विमुच्यते मुजनता प्रथिता भवता परम् । विदधरीदृशमेव सदा सखे : मुखितमा:ख ततः शरदां शतम् ॥' इति । पद्यमिदं च व्याख्यातपर्वम् । अत्र हि जह्त्स्वार्थापरपायाया लक्षणाभिधयाया लक्षणायाः सद्भावस्य दर्शितरीत्या वाच्यस्यात्यन्ततिरस्कृतत्वं निर्बाधम् ।। __ यथा वा मम-'ललनारमणं प्रियजनसङ्गो भोगश्च सम्पदामासाम् । न मनो : महसि महीयसि तत्ते न रती रतीप्सुनः स्थाने ॥' इति । अस्यायमर्थ:-हे मनः ! महीयसि परमे महति तेजसि 'तमेव भान्तमनुभाति सर्व' मित्या. दिश्रुतिभिः प्रतिपाद्ये सच्चिदानन्दवरूपे परस्मिन् ब्रह्मणि विषये ललनारमणं ललनाभिः साकं रमणं, प्रियजनैः साकं च सङ्गः, आसां वर्तमानानां सम्पदानां च भोगो न विद्यते तदिति हेतो रतीप्सुनस्तव न तत्र रतिरिति स्थाने युज्यते ॥' इति । अत्र हि-विपरीतलक्षणया वास्तविक्या रतेरिप्सुनो मनसस्ते महीयसि महसि रतिः स्थाने ललना. रमणादि तु सर्वं न वास्तविकमिति प्रतिपाद्यते । एवमत्यन्ततिरस्कृतवाच्यध्वनि पदवाक्यगतमुदाहृत्यासँलक्ष्यक्रमव्यङ्गयादीनुदाहर्तुकाम आह-अन्येषामित्यादि । अन्येषां परेषामर्थान्तरसक्रमवाच्यादिभ्यो व्यतिरिच्यमानानामसंलक्ष्यक्रव्यङ्गयादीनां ध्वनीनामित्यर्थः । आदिपदेन संलश्यक्रमव्यङ्ग्यतत्प्रभेदादिग्रहणम् । वाक्यगतत्वं वाक्यनिष्टत्वम् । उदाहतम् । तत्तदुदाहरणप्रसने इतिशेषः । इति तत एवावगन्तव्यमिति भावः । यथा वा मम-'ललने ! पश्यसि यंयं, सोऽनिमिषत्वं प्रपद्यते त्वरितम् । हन्त करेण गृहीतः कथमिव सुकृतिनि स जायेत॥' इति ।'अस्यायं पुनरर्थ:-हे ललने ! ययं पश्यति, स सर्वोऽपि युवजनसमाजस्वारीतमनिमिषत्वमाश्चर्योंद्रेकजन पादनमुखेन वा निमिषनिमीलनोन्मीलनस्तब्धत्वं जडानुरूपावस्थानं देवस्वरूपत्वं प्रतिपद्यते इत्येवं स्थितौ हे सुकृतिनि ! धर्मशीले त्वया करेण गृहीतः स (युवजन: ) कथमिव हन्त जायेत ॥' इति । अत्र हि-कामपि सुन्दरी स्तुवतः कस्यापि कामुकस्योक्तिरिति रहसि तत्सौन्दर्यनिरीक्षणमुद्दीपनं, नायिकाऽलम्बनं च, तदानीन्तनेन मदनोद्रेकेण तदालिङ्गनगाढौत्कण्ठयमनुभावः का पादिकारणीभूतव्याध्यादिय॑भिचारीभावश्चत्वेतेषां युगपत् प्रतीतिपथमवतरतां संयोगासम्भोगशृङ्गारस्य स्याथिभावभूता रतिः स एव वाऽभिव्यज्यते इत्यसंलक्ष्यक्रमव्यङ्गयत्वं वाक्यगतम् । वाक्यगतः पुनः संलक्ष्यकमव्यङ्गयो यथा मम-'सुमुखि ! तवैष विकासः कस्य न रुचये भवेत् सुधामधुरः । यद्दर्शनमनुभवतां तापशमो योगिनामचिरात् ॥' इति । अस्यायमर्थः-'हे सुमुखि : तवैष सुधया सुधावद्वा मधुरो विकाशः कस्य रुचये न भवेत् । यत्-दर्शनं विकासनिरीक्षणाहादमिति यावदनुभवतां योगिनां समाहितमनसां गृहिण तापशमोऽचिराद्भवति ॥ इति । अत्र हि-सुमुख्या विकासेन साकं सुधानिधेर्विकाससाधर्म्यमभिव्यज्यते इत्युपमाऽलङ्काररूपः संलक्ष्यक्रमव्यङ्गयो नाम ध्वनिर्वाक्यगतः । यथा वा मम-'साक्षादमृतनिधानं, मुखमिदमिति निश्चितं प्रिये ! सुहृदाम् । अथ कथमिति तव शरणं गत्वाऽपि मुमूर्षुरेवास्मि ॥' इति । अस्यायं पुनारर्थ:-'हे प्रिये : मुखमिदं साक्षान्न तु साधये॒णामृतनिधानमिति मुहृदां सहृदयानां त्वत्प्रीतिभाजनानां वा निश्चितम् । अथास्यामृतनिधानत्वे निश्चितेऽपिश्तवामृतनिधानवदनायाः शरणं गत्वाऽपि कथमिति मुमूर्षरेवास्मि ॥' इति । अत्र हि-रूपकेण 'एष स्वाधरामृतपानदानेन कृतार्थनीय ' इति वस्तु व्यज्यते । अथासंलक्ष्यक्रमव्यङ्गय पदगतमुदाहरन्नाह-पदगतत्वमित्यादि। पदगतत्वं पदनिष्ठत्वमसंलक्ष्यक्रमव्यङ्गयस्येति शेषः । यथा-'लावण्य...'इत्यादी। 'तत् । यत्पूर्व सम्भोगावस्थायामासीदिति शेषः । लावण्यं सौदर्यविशेषः । अलौकिकाहादजनकत्वे सति जितेन्द्रियत्वाभिमानिनामपि मनसि मदनोद्रेकस्योल्लासाधायकत्वे सति च मनोहरत्वकारणीभूतमवयवगतं सौन्दर्य लावण्य अत एवोक्तम्-'मुक्ताफलेषु च्छायायास्तरलत्वमिवान्तरा। प्रतिभाति यदषु तल्लावण्यमिहोच्यते ॥' इति । रामचरणास्त्वाहुः 'सर्वावयवगतो विदग्धनयनोत्सवहेतुः कोऽप्यतिशयो लावण्यम्-'प्रत्येकमवयवानां संस्थानसौभाग्य
SR No.023033
Book TitleSahitya Darpan Nam Alankar Sandarbh
Original Sutra AuthorN/A
AuthorVishvanathak Viraj, Shivdutta Kavi
PublisherKshemraj Krushnadas Shreshthi
Publication Year1838
Total Pages910
LanguageHindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy