SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ ३३५ परिच्छेदः ) रुचिराख्यया व्याख्यया समेतः । ___ न खलु कवेः कविनिबद्धस्येव रागाद्याविष्टता, अतः कविनिबद्धवक्तप्रौढोक्तिः कविप्रौढोक्ते. रधिकं सहदयचमत्कारकारिणीति पृथक् प्रतिपादिता। एषु चालकृतिव्यञ्जनस्थले रूपेणोत्प्रे. क्षणव्यतिरेचनादिमात्रस्य प्राधान्यं सहृदयं सम्वेद्यं, नतु-रूप्यादीनामित्यलकृतेरेव मुख्यत्वम् । २९० एकः शब्दार्थशक्त्युत्थे उभयशक्तयुद्भवे व्यङ्गये एको ध्वनेर्भेदः । नन्वस्त्येव कवेः प्रौढोक्तिसिद्धत्वं तनिबद्धस्यापि वक्तविशेषस्य, किं पुनस्तयोः पृथक्त्वमित्याह-नेत्यादि। कविनिबद्धस्य कविना निबद्ध उत्तम्भितखरूपस्तस्य तादृशस्य वक्तुः । रागाद्याविष्टता रागोऽनुरागस्तदाद्याविष्टत्वम् । आदिपदं चात्रोत्साहाद्यनुप्राहकम् । इव यथातथा । कवेः तन्निबद्धः । रागाद्याविष्टतेति शेषः । न । खलु नूनम् । अतोऽस्मात् कारणात् । प्रौढोक्ते रागाद्याविष्टत्वप्रत्यायिकत्वेऽपि कवेरपेक्षया तन्निबरुद्धय वक्तुरधि. करागाद्याविष्टताप्रत्यायनादिति भावः । कविप्रौढोक्तेः कविप्रौढेक्त्यपेक्षया । कविनिबद्धवक्तप्रौढोक्तिः । अधिकं सातिशयम् । सहदयचमत्कारकारिणी सहृदयानां चमत्कारो लोकोत्तराहादस्तत्कारिणी तद्विधात्री। इत्येवं मीमांसयित्वेत्यर्थः । पृथक् कविप्रौढोक्तेरिति शेषः । प्रतिपादिता । कविनिबद्धवक्तृप्रौढोक्तिरिति शेषः । अत्रेदमभिहितम-'न हि कविना परदारा एटव्या नापि चोपदेष्टव्याः । कर्त्तव्यतयाऽन्येषां न च तदपायोऽ. भिधातव्यः ॥ किन्तु तदीयं वृत्तं काव्याङ्गतया स केवलं वक्ति । आराधयितुं विदुषस्तेन न दोषः कवेरत्र ॥' इति रुदटोक्तनयेन, वाल्मीकिप्रभृतीनामपि कवित्वेन तनिबद्धाना मिव रागाद्याविष्टताया अन्याय्यकल्पनायाश्च न खलु कुत्रापि कवेस्तन्निबद्धस्येव तत्रतत्र रागाद्याविष्टत्वं, किन्त्वौदासीन्यमेवेति कविप्रौढोक्तेः कविनिबद्धप्रौढोक्तावस्त्येवाधिकचमत्कारकारित्वम् । इति । ननु यत्रालङ्कारस्य व्यजकत्वमुक्तं, तत्रास्त्येवालङ्कार्य्यस्य वस्तुनोऽपि व्यञ्जकत्वं तत् कथं तयोर्भेद इत्याहपवित्यादि। एषु प्रागुक्तेषु द्वादशवर्थशक्त्यनुराणनस्य ध्वने देषु मध्ये इत्यर्थः । च। अलङ्कृतिव्यञ्जनस्थलेऽलङ्कृतिरल. कारस्तस्य व्यञ्जनं ध्वनिस्तस्थले तद्वति शब्दे इति यावत् । रूपणोत्प्रेक्षणव्यतिरेचनादिमात्रस्य । अन्यस्मिनन्यारोपोरोपणम्,कञ्चिदंशमादायावास्तविकस्यापि वास्तविकत्वेन सम्भावनमुत्प्रेक्षणम्,परस्परं वैलक्ष्याभिधानं व्यतिरेचनम्' आदिना चापह्नवनादि, मात्रपदेन पुना रूप्यादिव्यवच्छेदः । प्राधान्यं ध्वन्यमानत्वं, न गुणीभूतत्वम् । सहदयसंवेयं सहृदयसाक्षिकम्। तत एवाह-रूप्यादीनां रूप्योत्प्रेक्ष्याव्यतिरेच्यापहव्यादीनामित्यर्थः । तु । प्राधान्यमिति शेषः । न । तस्यावास्तविकत्वेन सहृदयसम्वेद्यत्वाभावादिति शेषः । इत्यतः कारणात् । अलङ्कृतेरलङ्कारस्य । एव निर्बाधम् । मुख्यत्वं प्राधान्यम् । तदेवं तस्य सहृदयसक्षिकत्वेन ध्वनिरिति व्यपदेशार्हत्वमिति भावः । एवं द्वादशभेदात्मकार्यशक्त्यनुरणनमुदाहृत्य शब्दार्थोभयशक्त्यनुरणनध्वनिमाह-२९. एक इत्यादिना । २९० शब्दार्थशक्त्युत्थे शब्दार्थयोः शक्तिस्तस्या उत्तिष्ठतीति तत्र । व्यङ्गये इति शेषः । एक एकः प्रमेदः । शब्दार्थोभयशक्तिमूलः संलक्ष्यक्रमव्यङ्गयो नाम ध्वनिरेकप्रभेद एव, तत्र व्यङ्गयस्य शब्दार्थोभयशक्त्यनुरणनत्वमात्रेण भेदान्तरानुत्पत्तेरिति भावः ।। एवमेव विवृणोत्युभयशक्तयुद्भव इत्यादिना । उभयशतयुद्भवे उभयशक्तिः शब्दार्थोभयशक्तिः, सैवोद्भव उत्पत्तिस्थानं यस्य तस्मिन्निति, तस्या उद्भव. तीति तस्मिन्निति वा तथोक्ते । व्यङग्ये सतीति शेषः । एकः । ध्वनेः । शब्दार्थशक्तिमूलस्य संलक्ष्यक्रमव्यङ्गयस्येति शेषः । भेदः प्रभेदः ।
SR No.023033
Book TitleSahitya Darpan Nam Alankar Sandarbh
Original Sutra AuthorN/A
AuthorVishvanathak Viraj, Shivdutta Kavi
PublisherKshemraj Krushnadas Shreshthi
Publication Year1838
Total Pages910
LanguageHindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy