SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ ३०५ [ चतुर्थः परिच्छेदः ] रुचिराख्यया व्याख्यया समेतः । तत्र - स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोधरोत्सेधनिपातचूर्णिताः । बलीषु तस्याः स्खलितं प्रपेदिरे चिरेण नाभि प्रथमोदविन्दवः ॥' इतीदं ध्वन्युदाहरणम् । पद्यं चेदं कुमारसम्भवस्य चित्रमीमांसायां चोदाहृतम् । अत्र हि भगवतो महेश्वरस्य स्वात्मनि कमप्यनुग्रहमा काइक्षमाणाया भगवत्याः समाध्यवस्थावर्णनम् । अस्य च वाक्यार्थो दशमे परिच्छेदे स्फुटीभविष्यति । मूलकृता तत्रैव प्रसङ्गान्तरेणोदाहृतत्वात् । चमत्कारः पुनरप्पयदीक्षितपादैरेव यथा स्फुटीकृत. स्तथा प्रदश्यते, तस्य निरवद्यत्वात् । तथा च तत्रत्यो ग्रन्थः ' अत्र तपस्यन्त्या देव्या देहोपरि निपततां प्रथमवृष्टिबिन्दूनां क्रियास्वभाववर्णनेन देव्याः समाध्युचितावस्थाऽभिव्यक्तिद्वारा चिरनिदाघतप्तदेहोपरि निपतनेन सुखपारवश्यसम्भ्रमहेतावपि अभिहिता समाध्यवस्था व्यज्यते । तथा हि-' नासाऽग्रन्यस्तनयनः संवृतास्यः सुनिश्चलः । ध्यायीत मनसा देवमुरो विष्टभ्य चाग्रतः । इति समाधिमतामवस्थानमाहुः । तत्र ' पक्ष्मसु स्थिता' इत्यनेन नासाऽग्रन्यस्तनयनतारूपमर्धनिमीलनं व्यज्यते । सर्वथोन्मीलने पक्ष्मणामूर्ध्वात्वेन, सर्वथा निमीलनेन च तेषामधोऽग्रत्वेन जलबिन्दूनां स्थित्यसम्भवात् पक्ष्मभ्ययुतानां तेषामास्यप्रवेशेनाधरोष्ठे निपत्य ततश्च्युतिकथनेन संवृतास्यत्वं व्यज्यते । ततश्च्युतानां तेषां स्तनोत्सेधनिपतनादिवर्णनेन तूरोविष्टम्भः । अलसवदनावस्थाने हि स्तनयोरन्तः सङ्कुचिताकारतया तदुत्सेधयोस्तेषां पतनं न स्यात् । कथश्चित्तयोः पतित्वा वलित्रयं प्राप्तानामपि तिर्यगेव गमनं स्यात् । न चाभिदेशप्राप्तिः । नाभौ च संवृतायां प्रवेशो न स्यात् । पक्ष्माधरादिपतनक्रमकथनेन च निश्चलत्वं व्यज्यते । मुखादिचलने सति पक्ष्मपतितानां तेषामधरपयोधरादिक्रमेण पतनासम्भवात् । किञ्चैभिरेव विशेषणैर्देव्या लोकोत्तरं सौन्दर्यमभिव्यज्यते । [ तथाहि-] ' स्थिता' इत्यनेन पक्ष्मणामविरलतायाः 'क्षण' मित्यनेन तेषां मसृणतायाः शिथिलवेगानां तेषां स्तनोत्सेधे चूर्णाभाववर्णनेन तयोरतिकाठिन्यस्य, उरोविष्टम्भेऽपि वलीषु तेषां स्खलनोत्त्या वलीनां विस्पष्टताया: सर्वबिन्दूनां नाभावेव प्रवेशकथनेन नाभेरतिगभीरतायाश्चाभिव्यञ्जनात् । ' इति यत्तु पण्डितराजैरुत्तमोत्तमं काव्यमुदाहरद्भिः - शयिता सविधेऽप्यनीश्वरा सफलीकर्तुमहो मनोरथान् । दयिता दयिताननाम्बुजं दरमीलन्नयना निरीक्षते ॥' अत्रालम्बनस्य नायकस्य सविधशयनाक्षिप्तस्य रहः स्थानादेरुद्दीपनविभावस्य तादृशनिरीक्षणादेरनुभावस्य त्रपौत्सौक्यादेश्च व्यभिचारिणः संयोगाद्रतिरभिव्यज्यते । ' इत्युक्तम् । तत्र 'अहो पूर्ण सरो यत्र लुठन्तः स्ान्ति मानवाः' इत्यत्रे वाहो इत्यस्य विरुद्धार्थप्रत्या यकत्वेन 'अहो अनीश्वरा विधवाऽपि मनोरथान् सफलीकर्ते सविधे शयिता दयिता सती दयितानssनाम्बुजं दरेण न कश्चिन्मम जुगुप्सितं कर्म जानीयादिति भयेन निमीलन्नयना निरीक्षते ' इत्यर्थस्य निर्वाधितत्वेन परकीयायाः कस्या अपि विधवायाः परप्रसङ्गगर्हणपरत्वेन काव्यत्वाभाव एवेति तु दूरमास्तां तत्सद्भावविचारः । अथ कथमपि ध्वनिस्वीकारेऽपि 'शयिता सविधे' इति प्रयुक्ता ग्राम्यता दुर्निवारा । गुणीभूतव्यङ्गयं यथा - ' प्रहरविरतौ मध्ये वाऽह्नस्ततोऽपि परेण वा किमुत सकले याते वाऽह्नि प्रिय ! त्वमिष्यसि । इति दिनशतप्राप्यं देशं प्रियस्य यियासतो हरति गमनं बालाssलापैः सवाष्पगलज्जलैः ॥' इति । पद्यमिदममरुशतकस्य प्रवत्स्यन्नायिकायाः कस्याश्चिदधैर्य वर्णनपरम् । अस्य च ' हे प्रिय प्रेमनिकेत ! प्रहरविरतौ एकस्य प्रहरस्य विरामे सति किमिह मत्सन्निधौ एष्यसि पुनरागमिष्यसि किं वाऽह्नो दिवसस्य मध्ये प्रहरद्वयावसाने इह समागमिष्यसि किं वा ततोऽपि परेण प्रहरत्रया पगमे पुनरुपैष्यसि किमुत सकलेऽह्नि दिने याते व्यतीते एव पुनरागमिष्यसि । इत्येव वाला काचिदधीरा दिनशतप्राप्यं देशं यियासतो गन्तुमभिलषतः प्रियस्य गमनं गमनोयोगं सवाष्पगलज्जलैरालापैर्हरति निरुणद्धि ॥' इत्यर्थः । तात्पर्य पुनः - ' है प्रिय ! यत्र क्वापि गन्तुमिच्छसि तत्र याहि, किन्तु पुनः प्रहरस्यैकस्यावसाने एव प्रथमं त्वयेहागन्तव्यं, यदि पुनर्विलम्बः स्यात् तर्हि द्वितीये प्रहरेऽवश्यं पुनरागन्तव्यम्, अथ कथमपि किश्चिद्विलम्बो भवेत्तदा तृतीये प्रहरे समागन्तव्यम्, इतः परमशेषेऽस्मिन्दिवसे व्यतीते पुनरागमनं कथमपि युज्यते किन्तु पुनरपि अनागते त्वयि न क्षणमपि मम जीवितं भविष्यतीति दृढं निश्चीयताम् । इत्येवं ब्रुवन्ती वाला नेत्रेभ्योऽश्रूणि मुञ्चति विह्वलतया च तस्या गद्गदाक्षरा आलापाः, प्रियश्व यत्र गन्तुमभिलषति स देश एव प्रथममनेकशतदिवसप्राप्यः, तत्र कार्यसम्पादनं पुनः वियता कालेन सम्पाद्यमिति तु तादृशगमनोद्योगेनैव विज्ञेयं, पुनः प्रत्यागमाशा कदाचित् सम्भवति । अतः प्रियं निवर्त्तयत्येव तथोद्योगविचारादिति । अत्र च ततः परं प्राणान्धारयितुं न शक्ष्यामी' ति व्यङ्ग्यस्य 'हरति गमन' 'मत्यस्य वाच्यस्य सिद्धारङ्गतया गुण न च । ननु तथाऽस्तु गुणीभूतत्वं किन्तु नायकादेर्विभावस्य, बाष्पादेरनुभावस्य चिन्ताssवेगादेश्च सञ्चारिणः संयो ३९
SR No.023033
Book TitleSahitya Darpan Nam Alankar Sandarbh
Original Sutra AuthorN/A
AuthorVishvanathak Viraj, Shivdutta Kavi
PublisherKshemraj Krushnadas Shreshthi
Publication Year1838
Total Pages910
LanguageHindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy