SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ साहित्यदर्पणः । [तृतीयःअत्र पूर्वराग उक्तानामभिलाषादीनामत्रोक्तानां चाङ्गासौष्ठवादीनामपि दशानामुभयेषामप्युभयत्र सम्भवेऽपि चिरन्तनप्रसिद्धया विविच्य प्रतिपादनम् । अथ करुणविप्रलम्भः- । २४९ यूनोरेकतरस्मिन् गतवति लोकान्तरं पुनर्लभ्ये । , विमनायते यदैकस्तदा रसः करुणविप्रलम्भः ॥ २३९ ॥ यथा-कादम्बर्सा, पुण्डरीकमहाश्वेतावृत्तान्ते । महादिसञ्चारिभावकः ।' इति । यत्तूक्तं विवृतिकारैः-'उर्वशी हि पुरा मित्रावरुणशापान्मनुष्यलोकं प्राप्य पुरूरवसो गृहे 'यदि भवन्तं सुरतसमयातिरिक्तसमये ननं पश्यामि, तदा त्वामहं त्यक्ष्यामि, मम मेषद्वयं भवता रक्षणीय' मिति नियम कृत्वा स्थिता, तदनन्तरं देवैरन्धतमसे मेषद्वयमपहृतं, तच्छृत्वा पुरूरवाः ससम्भ्रमेण वस्त्रमपरिधायैव खगपाणिर्मेषापहर्तुः पश्चाद्धावितः । एतस्मिन्नन्तरे विद्युद्भिस्तं नग्नमवलोक्योर्वशी वर्ग गतेति ग्रन्थस्य वर्तुलार्थः । अत्र देवकृतमेषापहरणरूपदिव्योत्पातेन पुरूरवसः सम्भ्रमः, तेनोर्वश्या भिन्नदेशवर्तित्व' मिति, तद् विक्रमोर्वश्यनवलोकनमूलम् । अन्यौ यथामम, 'दूरादुपायान्तममुं चिरेण विलोचनाभ्यां नितरां पिबन्ती । निर्घातमाकर्ण्य कुतोऽपि वाला सौदामनीयां सुषमामजैषीत् ॥, नन्ती दृगन्तैः सुचिरायितं मां पादानतं सस्पृहमुदगिरन्ती । जनान्तरं तत्र कुतोऽपि यान्तं निशम्य सद्यस्तिरयाम्बभूव ॥ इति अत्र हि चित्तप्रमादद्योतनायैव पारोश्येणोक्तिः । ननु अभिलाषादीनामशासौष्टवादीनां च पूर्वरागे प्रवासे च व्यत्ययेनापि सम्भवोऽनुभूयत इति कथं तेषां पार्थक्यमित्याशङ्कयाह-अत्रेत्यादिना । अत्रास्मिन् ग्रन्थ इत्यर्थः । पूर्वरागे 'सम्भवित्वेने ति शेपः । उक्तानां प्रतिपादितानाम्। समस्तपाठे तु-'सप्तमी शौण्डैः । २।१।४ इत्यत्र 'सप्तमी ति योगविभागात् साधुत्वम् । अभिलाषादीनाम् । अत्रास्मिन् प्रवास इत्यर्थः । 'सम्भवित्वेने ति शेषः । च । उक्तानाम् । अङ्गासौष्ठवादीनाम् । अपि न केवलमभिलाषादीनां न वा केवलमझासौष्ठवादीनामित्यर्थः । दशानां दशसख्याकानामवस्थाविशेषाणामित्यर्थः । (प्रतिपादनमित्येतेन सम्वन्धः ) उभयेषामभिलाषादीनामशासौष्टवादीनां चेत्यर्थः । अपि पुनः । उभयत्र पूर्वरागे प्रवासे चेत्यर्थः । सम्भवे । अपि । चिरन्तनप्रसिद्धयाश्चिरन्तनानां प्रसिद्धिरुद्धोध्याभिधानं तस्यास्तामनुरुभ्येति भावः । विविच्य पार्थक्येन निश्चित्य । प्रतिपादनम् । 'कृतमिति वोध्य निति शषः । एवं प्रवासं निरूप्य करुणं निरूपयितुमुपक्रमते-अथेत्यादिना । अथ प्रवासविप्रलम्भस्य लक्ष्यलक्षणाभ्यां निरूपणानन्तरम् । करुणविप्रलम्भः करुणोऽसौ विप्रलम्भ इति तथोक्तः । निरूप्यते-२४९ यूनोरित्यादिना । २४९ यनोयुवतियनोर्मध्य इत्यर्थः । 'पुमान् स्त्रिया। १।२।६७ इत्येकशेषः । एकतरस्मिन युवा यूनि वेति भावः । लोकान्तरम् । गतवति प्राप्तवति सति, मृत इति यावत् । तथा-पुनर्लभ्ये तदनन्तरमपि लब्धुं शक्ये तादृशेनैव शरीरेणोज्जीवितुं युक्त इति यावत् । यदा । एकस्तद्भिन्न'इति शेषः । विमनायते दुःखितचेता जायते प्रलापादिना तथाऽवगम्यत इति यावत् । 'भृशादिभ्यो भुव्यच्वेर्लोपश्च हल: ।' ३।१।१२ इति क्यड सो लोपश्च । तदा । करुणविप्रलम्भाख्यः। रसः । 'स्यादिति शेषः । अयम्भावः-'करुणः शोकस्थायिको. विप्रलम्भो विप्रकृष्टरतिस्थायिकश्च, तत्-यत्र शोकेन लोकान्तरगमनजन्येन चेतसो दौःस्थ्यम्, अत एव-यदनुभावा विलापाद्याः, स करुणः; यत्र पुनःपुनः सङ्गमाशया तत्र प्रोषित इवाभिधानाद्याः, स विप्रलम्भः; इत्यनयोरङ्गाङ्गिभावो यत्रोपपद्यते स करुणविप्रलम्भः । इति ।' अत्रााछन्दः, तल्लक्षणं चोतं प्राक् ।। २३९ ॥ उदाहरति-यथा-कादम्बय्या तदाख्यस्य बाणकृतस्य गद्यकाव्यस्य पूर्वभाग इति भावः । पुण्डरीकमहाश्वेतावत्तान्ते पुण्डरीकस्य महाश्वेतया चन्द्रापीडं प्रति वर्ण्यमाने वृत्तान्त इति भावः। तत्रेदमुपलभ्यते-'अन्योऽन्यं सप्रश्रय
SR No.023033
Book TitleSahitya Darpan Nam Alankar Sandarbh
Original Sutra AuthorN/A
AuthorVishvanathak Viraj, Shivdutta Kavi
PublisherKshemraj Krushnadas Shreshthi
Publication Year1838
Total Pages910
LanguageHindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy