________________
परिच्छेदः
रुचिराख्यया व्याख्यया समेतः । परोढां वर्जयित्वा च वेश्यां चाननुरागिणीम् । आलम्बनं नायिकाः स्यु-दक्षिणाद्याश्च नायकाः ॥ २११॥ चन्द्रचन्दनरोलम्बरुतााद्दीपनम्मतम् । भूविक्षेपकटाक्षादिरनुभावः प्रकीर्तितः ॥ २१२ ॥ त्यक्त्वौग्रयमरणालस्यजुगुप्सा व्यभिचारिणः ।
स्थायिभावो रतिः श्यामवर्णोऽयं विष्णुदैवतः ॥ २१३ ॥ - यथा-'शून्यं वासगृह..'इत्यादि, अत्रोक्तस्वरूपः पतिरुक्तस्वरूपा च वालाऽऽलम्बनविभावौ, एव, किन्तु क्वचिदधमालम्बनकोऽपि । अत एव-शृङ्गाराभासस्याप्यधममेवालम्बनम् । सङ्गच्छते चैवम् 'प्राय इत्यनेन शृङ्गाराभासादावधमप्रकृतित्वं सूचित'मिति तर्कवागीशैरुक्तम् । रसः । शृङ्गारः । इप्यते । अयमभिप्रायः-शृणाति चर. मदशाप्रापणेन हिनस्ति यून इति शृङ्गम्मन्मथोद्भेदः । 'शृ' हिंसायाम। 'शृणातेर्हस्वश्वे तिगुन्नुड्ह्रखाः । तथा च-मारणावधिको मम्मथव्यापारः शृङ्गम् , शृङ्गमृच्छति प्रापयत्यारात्याश्रयतीति वा शृङ्गारः । अन्तर्भावितण्यर्थकादृच्छतेः 'कर्मण्यम् ।' ३।२।१ इत्यण आहुपपदादाते: 'आतश्चोपसर्गे' ३।१।१३६ इति को वा। इतीयमन्वर्था सझेति निष्कृष्टम् । एष चोत्तमप्रकृतीनेवावलम्ज्योज्जम्भते । इत्येव ' शृङ्गं ...' इत्यर्द्धन शृङ्गारस्यान्वर्थी सज्ञां लक्षयित्वा तृतीयपादे पुना रसान्तरतो व्यतिरेको लक्षितः । इति । ननु शृङ्गारस्य रसस्य रतिस्थायित्वे कथमुत्तमालम्बनत्वमित्याह-परोढाम् । 'अनुरागिणीमपी'ति शेषः । च । वर्जयित्वा । अननुरागिणीमनुरागशन्याम् । च । वेश्यां गणिकाम्। एतेन-देवाजनानामप्युपादानम्' 'वर्जयित्वे'ति पूर्वेणान्वेति, अत एव 'चे'त्यस्याधिक्यं सङ्गच्छते। नायिकाः। च तथा। दक्षिणाद्याः। आद्यपदेन धीरललितानुकूलयोर्ग्रहणम् । नायकाः। आलम्बनम्। स्युः। इदमुक्तम्-नहिस्त्रीपुंसयोरन्योऽन्यालम्बनः प्रेमाख्यश्चित्तवृत्तिविशेष एव रतिः । 'सैवास्य स्थायी'ति वक्तुं युक्तम् । दम्पतित्वविरहे स्त्रीपुंसयोरप्यन्योऽन्यालम्बनस्य प्रेम्णोऽपि स्थायित्वानुपपत्तेः । दम्पती अप्युत्तमप्रकृती एव । तथा च-शृङ्गारस्योत्तमप्रकृतयो नायिकानायकाश्चालम्बनम् । उत्तमप्रकृतिकत्वेनैव परोढाया अननुरक्ताया वेश्यायाः शठादेश्च निरासः । उद्देश्यविधेयभावेन 'वेदाः प्रमाण'मित्योकत्राप्यन्वयोपपत्तिः । इति । उद्दीपनानुभावो निर्दिशति-चन्द्रचन्दनरोलम्बरुतादि । रोलम्बो भ्रमरस्तस्य रुतं झङ्कारशब्दः । आदिना रहःस्थानयौवनादि । उद्दीपनम् । मतम् । भ्रूविक्षेपकटाक्षादिः। आदिना मुखविकासादि । अनुभावः। प्रकीर्तितः। औय्यमरणालस्यजुगुप्साः । त्यक्त्वा अगृहीत्वा । 'अन्ये सर्वेऽपि यथासम्भवं निर्वेदाचा' इति शेषः । व्यभिचारिणः। रतिनिरुक्तलक्षणः प्रेमविशेष इत्यर्थः । स्थायिभावः। 'अस्य'ति शेषः । अयं 'शृङ्गार'इति शेषः । श्यामवर्णः श्यामो वर्णों यस्य तादृशः । तथोक्तं श्यामो भवति 'शृङ्गार'इति । ननु श्यामवर्णस्यास्य कथमुत्तमप्रकृतिप्रायत्वमित्याह-विष्णुदैवतो विष्णुर्दैवतं यस्य स इति तथोक्तः । उक्तं च-'शृङ्गारो विष्णुदेवस्त्वि'ति । विष्णुदैवतत्वेनैवास्य श्यामवर्णत्वं, सङ्कटते तत उत्तमप्रकृतिप्रायत्वमिति भावः ॥ २११ ॥ २१२ ॥ १३ ॥
उदाहरणं दर्शयति-यथेत्यादिना ।
यथा । 'शून्यं वासगृहं...'इत्यादि । शृङ्गारस्योदाहरण'मिति शेषः । पद्यं चेदं व्याख्यातपूर्वमिति बोध्यम् । अत्र 'शून्यं वासगृहं...'इत्यादाविति शेषः । उक्तस्वरूप उक्तो 'निद्राव्याजमुपागतस्थेत्यादिनाभिहितं खरूपं यस्य स तथोक्तः । पतिः। च तथेत्यर्थः । उक्तस्वरूपोक्त 'शयनादुत्थाय..'इत्यादिना प्रोक्तं स्वरूपं यस्याः सेति तथोक्ता । बालाऽचिरात्परिणीता नायिकेति भावः । आलम्बनविभावौ। 'अत्र द्विवचनमुभयोर्न तु तयोरेकतरस्यैवालम्बनविभावत्वमिति सूचनार्थम् । अन्यथा 'वेदाः प्रमाण'मितिवदुद्देश्यविधेयभावकल्पनयैकवचनमेव प्रसज्येतेति बोध्यम् ।