SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ परिच्छेदः रुचिराख्यया व्याख्यया समेतः। अथ स्मृतिः-- २०५ सदशज्ञानचिन्ताऽऽद्य-भूसमुन्नयनादिकृत् । स्मृतिः पूर्वानुभूतार्थ-विषयं ज्ञानमुच्यते ॥ १८९ ॥ यथा मम'मयि सकपटं किञ्चित्वापि प्रणीतविलोचने किमपि नयनं प्राप्ते तिर्यग्विजृम्भिततारकम् । स्मितमुपगतामाली दृष्ट्वा सलज्जमवाश्चितं कुवलयदृशः स्मेरं स्मेरं स्मरामि तदाननम् ॥११५॥' अत्रेदं बोद्धव्यम्-नायककृतो नखदन्ताघातः आलम्बनं. तस्य पुनः प्रातः प्रेक्षणमुद्दीपनं, तत्रतत्र चन्दनालेपादि. विधानमनुभावश्चेत्येवं शङ्काऽभिव्यज्यते । यथा वा-'विधिवञ्चितया मया न यातं सखि! सङ्केतनिकेतनं प्रियस्य । अधुना बत किं विधातुकामो मयि कामो नपतिनहन्त जाने ॥' इति । अत्र हि कामदेवो नपतित्वेन वर्ण्यमान आलम्बनं, तस्यापराधरूपस्य नि गमनाभावस्य स्मरणमुद्दीपनम्मुखवैवाद्याक्षिप्यमाणमनुभावश्चेत्येवं शङ्काऽभिव्यज्यते । स्मृति लक्षयितुं प्रतिजानीते-अथ शङ्कोदाहरणानन्तरम् । स्मृतिः लक्ष्यते-२०५ सदृश.. इत्यादिना । २०५ सदृशज्ञानचिन्ताऽऽयैः सदृश (स्य ) ज्ञानचिन्ते आये येषां ( सम्बन्धिज्ञानादीनां ) तैः, सदृशज्ञानं च चिन्ताऽऽये चेति तैरिति वा तथोक्तैः । चिन्ताऽऽद्या ययोः (सम्बन्धिज्ञानादृष्टज्ञानयोः) ते चिन्ताऽऽद्ये । सदशं तद्भिनं सत्तद्गतभूयोधर्मवत् , यथा मुखस्य कमलम् । ज्ञानं बुद्धिः । चिन्ता ज्ञानजन्या भावना; एवं च ज्ञानस्य भावनो. द्वोधनद्वारा भावनायाश्च साक्षात् कारणत्वमिति ध्वनितम् । सम्वन्धि यथा मुखस्य भाषणं, कमलस्य भ्रमरादि वा । अदृष्टं प्रारब्धम् 'बुद्धिरनुभव' इति 'भावना संस्कार' इति चानान्तरम् । एवं च-'अनुभवजन्या स्मृतिहेतुर्भावना' इति, 'संस्कारजन्य ज्ञान' मिति च स्थाने । भ्रूसमुन्नयनादिकृत् । नेत्रादिविकारादि । पूर्वानुभूतार्थविषयं पूर्वमनुभूतो योऽर्थः पदार्थः स एव विषयो यस्य तत् । ज्ञानम् । स्मृतिः । उच्यते ॥ १८९ ॥ उदाहरति-यथा । मम । 'मयि... इत्यादौ । 'वापि कस्मिंश्चित्कमल' इति शेषः । किञ्चित् । प्रणीतविलोचने प्रणीते प्रवर्तिते विलोचने (विशिष्टे सस्पृहत्वाद्विस्फारं प्राप्ते लोचने) येन तादृशे। मयि 'नायक' इति शेषः । सकपटं 'मधुपः कमलमिव माऽयं मां पा' दिति कपटपूर्वकं सन्निधीयमानमिति भावः । अथ-विज़म्भिततारकं विजृम्भिता सस्पृहं व्यापादिता तारका यस्मिन् कर्मणि तत्तथा । किमपि किञ्चित् , अनिर्वचनीयं वा । नयनं 'नायिकाया' इति शेषः । नायिकाया नयनविषयतामित्यर्थः । प्राप्ते 'मयी'ति शेषः । तिर्यक् तिर्यग्भूतमित्यर्थः । अत एव-स्मितं ( आवयोर्भावमुन्नीय ) मन्दहासम् । उपगतां प्राप्ताम् । आली सखीम् । दष्ट्रा । सलज्ज लज्जया सहितं यथा स्यात् तथा। अवाचितमानमितम् । तत् मनोविजयत्वेनाहादयमानम् । कुवलयदशः कुवलयवन्नीलकमलवदृशौ यस्यास्तस्याः । 'कुवलयमिन्दीवरं च नीलाब्जम् ।' इति नाममाला । 'प्रियाया' इति शेषः । स्मेरमीषद्धास्ययुक्तम् । अत एव-स्मेरं विकसितम् । आननं मुखम् । स्मरामि । मरुता पारभूयमानेनापि मधुपेन पुनःपुनर्निपीयमानं कमलं विलोक्य तथैव प्रियाया वदनं पातुं जातायां स्पृहायां कदाचिदनुभूतं प्रियायाः स्मितोद्गारं स्मरतः कस्याप्युक्तिरियम् । अत्र हरिणी छन्दः, तल्लक्षणं चोक्तं प्राक् ॥ ११५॥ अत्रायम्भाव:-मधुपेन निपीयमानं कमलं दृष्टा प्रियाया वदनं पातुं स्पृहाऽऽसीदित्येतावता स्मृति+न्यते, इति सहदयाः; न तु स्मरामीत्यनेन, तथा तस्यावाच्यत्वाञ्चमत्कारानुदयाच्च । तथा च-कमलं वदनसदृशमिति कमलं दृष्टोद्धया भावनया वदनं स्मृनं, स्वसदृशं च मधुपपानमिति मधुपेन क्रियमाणं पानं दृष्ट्वोसुद्धया भावनया पानं स्मृतमिति कमलं वदनस्मृतौ मधुपपानं पुनः स्वपान आलम्बनं, प्रियासनिधिश्चोद्दीपनं, विज़म्भिततारकं यथा भवेत्तथा पातुं प्रवृत्तिरनुभाव
SR No.023033
Book TitleSahitya Darpan Nam Alankar Sandarbh
Original Sutra AuthorN/A
AuthorVishvanathak Viraj, Shivdutta Kavi
PublisherKshemraj Krushnadas Shreshthi
Publication Year1838
Total Pages910
LanguageHindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy