SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १८३ परिच्छेदः ] रुचिराख्यया व्याख्यया समेतः। १८३ १५४ अज्ञानादिव या पृच्छा प्रतीतस्यापि वस्तुनः। वल्लभस्य पुरः प्रोक्तं मौग्ध्यं तत्तत्त्ववेदिभिः ॥ १३३ ॥ यथा-'के दुमास्ते क्व वा ग्रामे सन्ति केन प्ररोपिताः। नाथ ! मत्कङ्कणन्यस्तं येषां मुक्ताफलं फलम् ॥ ७७॥' अथ विक्षेपः१५५ भूषाणामर्धरचना मिथ्या विष्वगवेक्षणम् । रहस्याख्यानमीषच्च विक्षेपो दयितान्तिके ॥ १३४ ॥ यथा-'धम्मिल्लमर्धमुक्तं कलयति तिलकं तथाऽसकलम् । किञ्चिद्धदति रहस्यं चकितं विश्वग्विलोकते तन्वी ॥ ७८॥' १५४ प्रतीतस्य ज्ञातस्य । अपि किं पुनर्वस्तुतोऽज्ञातस्येति भावः । वस्तुनः। अज्ञानादिव । वास्तविकाज्ञानस्यासम्भवादिवेत्युक्तम् । वल्लभस्य प्रियस्य । पुरः पुरस्तात् । या। पृच्छा प्रष्टुमिच्छा । तत्त्ववेदिभिः । तत् । मौग्ध्यम् । प्रोक्तम् ॥ १३३ ॥ उदाहरति-यथा-'के द्रुमाः...इत्यादौ । 'हे नाथ! येषाम् । मुक्ताफलं मौक्तिकं फलम् । एतेनास्य स्थूलत्वं मधुरत्वं च द्योत्येते। फलम् । मरकड़णन्यस्तं मम (कान्तायाः) कणं तत्र न्यस्तै जटितमिति तथोक्तम्। 'शोभत इति शेषः । ते। के किनामानः किंखरूपाश्चेत्यर्थः । द्रमाः । क्व कस्मिन् । वा। ग्रामे । केन । प्ररोपिताः। सन्ति विद्यन्ते । अत्र श्लोकश्छन्दः, तल्लक्षणं चोक्तं प्राक् ॥ ७७॥' यथा वा--'यदि चूतस्य मञ्जो सख्यः ! सन्निहितः स्मरः । भग्नायां तत् कथं सौख्यं मनागपि न दृश्यते ॥' इति । अथ विक्षेपं लक्षयितुं प्रतिजानीते--अथेत्यादिना । अथ मौग्ध्योदाहरणानन्तरम् । विक्षेपो 'लक्ष्यते--१५५ भूषाणा...इत्यादिना । १५५ दयितान्तिके दयितस्य प्रियस्य, दयितायाः प्रियायाः सख्या वाऽन्तिकः समीपस्तत्र । भूषाणां भूषणानाम् । अर्धरचनाऽर्धे यथा भवेत्तथा रचना गुम्फनं प्रसाधनत्वेन वा धारणमिति तथोक्ता। मिथ्या । विश्वक् सर्वतः । अवेक्षणम् । च तथा। ईषत् किञ्चित् । रहस्याख्यानं रहस्यस्य गुह्यस्य सौरतादिसम्बन्धिवृत्तस्याख्यानम् । विक्षेपः । अयम्भावः-कान्यपि अभिसरणादियोग्यानि भूषणादीनि प्रथम प्रसाधयति, पुनः केनापि भयादिना त्यजत्ति, एवं किञ्चिद्वक्तुं कर्तुं वा स्पृहते, किन्तु जनान्तरागमनश्रवणादिभयाद् विष्वनिरीक्षते, किञ्चिदन्तर्निहितं रहस्यं चेष्टितं कथमपि प्रकटयति, किन्तु भयात् प्रमांदनिवृत्त्या वा ततो निवर्तते, इत्येवंभूताया यच्चेष्टितं तद्विक्षेपपदाभिधेयम् । इति ॥ १३४ ॥ उदाहरति-यथा-'धम्मिल्ल... इत्यादौ । 'तन्वी धम्मिलं बद्धान् केशान् । 'धम्मिल: संयताः कचाः ।' इत्यमरः । अर्द्धमुक्तमधु यथा भवेत्तथा मुक्तो बन्धनतो निवृत्तिं नीतस्तम् । कलयति रचयति । तथा। तिलकम् । असकलमसम्पूर्णम् । 'शकल' मिति पाठेऽप्ययमेवार्थः । 'कलयती'ति देहलीदीपकवत् काकाक्षिगोलकवद्वोभयत्रान्वेति । किश्चिम तु सर्वम् । रहस्यम् । वदति । चकितं यथा भवेत्तथा । विष्वक् सर्वतः । 'सर्वतो विष्वगित्यपि' इत्यमरः । विलोकते । अत्रोपगीतिश्छन्दः, तल्लक्षणं चोक्तं प्राक ॥७८॥' अथ कुतूहलं लक्षयितुं प्रतिजानीते-अथेत्यादिना ।
SR No.023033
Book TitleSahitya Darpan Nam Alankar Sandarbh
Original Sutra AuthorN/A
AuthorVishvanathak Viraj, Shivdutta Kavi
PublisherKshemraj Krushnadas Shreshthi
Publication Year1838
Total Pages910
LanguageHindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy