SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ १३० दुष्ट ग्रहो दण्डः । साहित्यदर्पणः । ८७ ऋत्विक्पुरोधसः स्युर्ब्रह्मविदस्तापसास्तथा धर्मे ॥७०॥ [ तृतीय: ब्रह्मविदो वेदविद आत्मविदो वा । अत्र च - ८८ उत्तमाः पीठमद्दद्या: आद्यशब्दान्मन्त्रि पुरोहितादयः । ८९ मध्यौ विविदूषकौ । तथा शकारचेटाद्या अधमाः परिकीर्त्तिताः ॥ ७१ ॥ आद्यशब्दात्ताम्बूलिकगान्धिकादयः । अथ प्रसङ्गाद् दूतानां विभागगर्भलक्षणमाह सैनिकाः सेनापतयः । आद्यपदेन - हिंस्रादिग्रहणम् । सेनां रक्षन्तीति सैनिकाः । ' रक्षति ।' ४ । ४ । ३३ इति ठक् । 'सैनिकः सैन्यरक्षे च स्यात्सेनासमवेतके ।' इति मेदिनी । 'सहाया' इति शेषः । अत्र काठिन्यं परिहर्तुं दण्डपदार्थमाह- दण्डः । दुष्टनिग्रहो दुष्टानां दस्युप्रभृतीनां निग्रह उद्दण्डताया निवर्त्तनम् । एवं धर्मेऽपि सहाया बोद्धव्या इत्याह-८७ ऋत्विकू.. इत्यादि । ८७ तथा 'यथा दण्डे' इति शेषः । धर्मे धर्म्मप्रवृत्तिकृते । ऋत्विकपुरोधसः ऋत्विजो याजकाश्च ते पुरोधसः पुरोहिता इति तथोक्ताः । 'वृताः कुर्वन्ति ये यज्ञमृत्विजो याजकाश्च ते ।' इति मेदिनी । पुरोऽग्रे धीयत इति पुरोधाः । 'पुरसि च (उ० ) । ४।२३१ इत्यसिः । ब्रह्मविदो ब्रह्म वेदं परं तत्त्वं वा विदन्तीति तथोक्ताः । ' वेदस्तत्वं परं ब्रह्म ।' इत्यमरः । तापसास्तपखिनः । 'सहाया' इति शेषः । स्युः । अत्राय्र्या छन्दः । लक्षणं चोक्तं प्राक् ॥ ७० ॥ ब्रह्मवित्पदार्थं सूचयन् कारिकाया: काठिन्यं परिहरति- ब्रह्मविदः इत्यस्य । वेदविदः । आत्मविदो लब्धज्ञानाः । वाऽथवा । ' इत्यर्थ' इति शेषः । एवं सहायान्निर्दिश्यैषामुत्तमत्वादि विभज्य निर्दिशति - अत्रैषु सहायात्मनाऽभिहितेषु पीठमध् न्च पुनः । यावत् । ८८ पीठमर्दाद्याः पीठमर्द्द आयो येषां (मन्त्र्यृत्विक्पुरोधस्तापसादीनाम् ) ते तथोक्ताः । उत्तमाः श्रेष्ठाः 'साया' इति शेषः । अद्यपदार्थ स्वयमपि विवृणोति - आद्यशब्दा दायशब्दमाश्रित्येत्यर्थः । अत्र ल्यपो लोपे पञ्चमी । मन्त्रिपुरोहितादय: । 'बोद्धव्या' इति शेषः । ८९ विविदूषकौ । मध्यौ मध्यमौ । 'बोद्धव्या' इति शेषः । तथा । शकारचेटाद्याः शकारचेटताम्बूलिकादयः । अधमाः । परिकीर्त्तिताः । अत्र श्लोकछन्दः ॥ ७१ ॥ आद्यपदार्थ निर्दिशति - भाद्यशब्दादाद्यशब्दमाश्रित्येत्यर्थः । ताम्बूलिकगान्धिकादयः । आदिपदेन षण्ढकुजकिरातादीनां ग्रहणम् । दूता अपि साहाय्येऽपेक्ष्यन्त इति तानपि स्वरूपेण निर्देष्टुमाह- अथेत्यादि । अथ । प्रसङ्गात्सहायाभिधानरूपक्रमोपस्थानात् । दूतानाम् । विभागगर्भलक्षणं विभागः कार्य्यानुरूपतया Sवच्छेदो गर्भे मध्ये यस्य तादृशं यल्लक्षणं स्वरूपं तत्तथोक्तम् । आह ९० निस्सृष्टार्थ इत्यादिना ।
SR No.023033
Book TitleSahitya Darpan Nam Alankar Sandarbh
Original Sutra AuthorN/A
AuthorVishvanathak Viraj, Shivdutta Kavi
PublisherKshemraj Krushnadas Shreshthi
Publication Year1838
Total Pages910
LanguageHindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy