SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ १२० साहित्यदर्पणः। [ तृतीयः७१ मायापरः प्रचण्ड-श्चपलोऽहङ्कारदर्पभूयिष्ठः । ____ आत्मश्लाघानिरतो धीरेधीरोद्धतः कथितः ॥ ५८ ॥ यथा भीमसेनादिः । अथ धीरललितः ७२ निश्चिन्तो मृदुरनिशं कलापरो धीरललितः स्यात् । कला नृत्यादिका । यथा रत्नावल्यादौ वत्सराजादिः । अथ धीरप्रशान्तः ७३ सामान्यगुणैर्भूयान् द्विजेषु धीरप्रशान्त इत्युक्तः ॥ ५९॥ यथा मालतीमाधवादौ माधवादिः । एषां च शृङ्गारादिरूपत्वे भेदानाह ७१ मायापरो मायायां परः परायणः । प्रचण्ड उद्धतः । चपलोऽतित्वराकारी। अहङ्कारदर्पभूयिष्ठोअहङ्कारदाभ्यां भूयिष्ठोऽतिशयितः । अहङ्कारः खात्मनि श्रेष्ठत्वमननम्, दर्पोऽपरेषामवज्ञाहेतुका चित्तत्तिः आत्मश्लाघानिरत आत्मानं बहुभाषी । धीरोद्धतः। धीरैविज्ञैः । कथितः। अत्रार्याछन्दः । तलक्षणं चोक्तं प्राक् ॥ ५८ ॥ उदाहरति-यथा । वेणीसंहारादिषु' इति शेषः । भीमसेनादिः । आदिपदेनानयसिन्ध्वादिग्रहणम् । अथ धीरललितस्वरूपमाह-अथ । धीरललितः 'लक्ष्यते' इति शेषः । ७२ निश्चिन्तइत्यादिना । ७२ निश्चिन्तश्चिन्ताशून्यः । इदं कर्त्तव्यम् , इदं तु नेति विचारश्चिन्ता तद्रहित इति भावः । मृदु: कोमलस्वभावः । अनिशं निरन्तरं भूयोभूयो वा। कलापरः कलासु नृत्यगानादिषु पर उत्साहशील इति तथोक्तः । धीरललितः। स्यात् । कारिकायाः कठिनाशं व्याचष्टे-कला तत्पदार्थ इति भावः । नृत्यादिका नृत्यादिविद्यारूपा, 'न तु कालविशेष इति बोध्य' इति शेषः । इति । उदाहरति-यथा। रत्नावल्यादौ रत्नावल्यादिनाटिकादौ । वत्सराजादिवत्सराजानिरुद्धादिः । इति। अथ चतुर्थ लक्षयितुमुपक्रमते-अथेत्यादिना । अथ धीरललितलक्षणानन्तरम् । धीरप्रशान्तो 'लक्ष्यत' इति शेषः। ७३ सामान्येत्यादिना । ७३ सामान्यगुणैः 'विशिष्ट' इति शेषः । तथा च- ६८ त्यागीत्यादिना निर्दिष्टै यकमात्रसम्भविभिः प्रायो गुणैर्विशिष्ट इति भावः । द्विजेषु ब्राह्मणक्षत्रियवैश्येष्वित्यर्थः । निर्धारणाथैयं सप्तमी। भूयाञ्छेष्टः । धीरप्रशान्तः। इतीत्येवम् । उक्तः। अत्र 'द्विजाधिको धीरप्रशान्तः स्या' दिति त्वपपाठ एव, छन्दोभङ्गापत्तेः । 'द्विजादिको धीरशान्तः स्या' दिति पुनः पाठोऽपि नातिरुचिरः 'स्या' दिति पदस्य भागद्वये समुपस्थानात् । अथ-'द्विजादिको धीरशान्त इत्युक्तः' इति पाठे 'धीरप्रशान्त' इत्यनुक्त्वा तथा वचोदुष्टत्वेऽपि ६८ त्यागीत्यादिना सन्दिष्टैर्गुणैर्भूयान् यो ब्राह्मणाद्यन्यतमो द्विजन्मा स धीरप्रशान्त इत्युक्त इति तात्पर्य्यम् । अत्रोद्गीतिश्छन्दः, तल्लक्षणं चोक्तं यथा-'आऱ्यांशकलद्वितयं व्यत्ययरचितं भवेद् यस्याः । सोद्गीतिः किल कथिता तद्वद् यत्यंशभेदसंयुक्ता ॥' इति ॥५९॥ उदाहरति-यथा। मालतीमाधवादी मालतीमाधवं नाम भवभूतिप्रणीतः प्रकरणसञो दृश्यकाव्यविशेषः, तदादौ यस्य (कौमुदीसुधाकरादेः ) तत्रेति तथोक्ते । माधवादिधिवसुधाकरादिः । अथैतेषां प्रत्येकं चतुष्प्रकारत्वं निरूपयितुमुपक्रमते-एषामित्यादिना । एषां निरुक्तस्वरूपाणां धीरोदात्तादीनामित्यर्थः । च। शृङ्गारादिरूपस्वे मारादिरसानुकूलस्वरूपसत्त्वे । अत्र विषये सप्तमी । भेदान् । आह-७४ एभिरित्यादिना ।
SR No.023033
Book TitleSahitya Darpan Nam Alankar Sandarbh
Original Sutra AuthorN/A
AuthorVishvanathak Viraj, Shivdutta Kavi
PublisherKshemraj Krushnadas Shreshthi
Publication Year1838
Total Pages910
LanguageHindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy