SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ १७६ ....... पन्यादा _ नाटकादेरभिनेयार्थत्वादभिनयस्य च सम्भोगशृङ्गारविषयस्यासभ्यत्वात् तत्र परिहार इति चेत् ? . - न । यद्यभिनयस्यैवंविषयस्यासभ्यता तत् काव्यस्यैवंविषयस्य सा केन निर्वायते । तस्मादभिनेयार्थेऽनभिनेयार्थे' वा काव्ये यदुत्तमप्रकृते राजादेरुत्तमप्रकृतिभिर्नायिकाभिः सह ग्राम्यसम्भोगवर्णनं तत् पित्रोः सम्भोगवर्णनमिव सुतरामसभ्यम् । तथैवोत्तमदेवताविषयम् । ... न च सम्भोगशृङ्गारस्य सुरतलक्षण एवैकः प्रकारः, यावदन्येऽपि प्रभेदाः परस्परप्रेमदर्शनादयः सम्भवन्ति, ते कस्मादुत्तमप्रकृतिविषये न वर्ण्यन्ते । तस्मादुत्साहवद् रतावपि प्रकृत्यौचित्यमनुसतव्यम् । तथैव विस्मयादिषु । यत्त्वेवंविधे विषये महाकवीनामप्यसमीक्ष्यकारिता लक्ष्ये दृश्यते स दोष एव । स तु शक्तितिरस्कृतत्वात् तेषां न लक्ष्यते, इत्युक्तमेव । __अनुभावौचित्यं तु भरतादौ प्रसिद्धमेव । इयत्तूच्यते । भरतादिविरचितां स्थिति चानुवर्तमानेन महाकविप्रबन्धांश्च पर्यालोचयता स्वप्रतिभां चानुसरता कविनाऽवहितचेतसा भूत्वा विभावाद्यौचित्यभ्रंशपरित्यागे परः प्रयत्नो विधेयः। औचित्यवतः कथाशरीरस्य वृत्तस्योत्प्रेक्षितस्य वा ग्रहो व्यञ्जक इत्येतेनैतत् प्रतिपादयति यदितिहासादिषु कथासु रसवतीषु विविधासु सतीष्वपि यत्तत्र विभावाद्यौचित्यवत् कथाशरीरं तदेव ग्राह्यं नेतरत् । वृत्तादपि च कथाशरीरादुत्प्रेक्षिते विशेषतः प्रयत्नवता भवितव्यम् । तत्र ह्यनवधानात् स्खलतः कवेरव्युत्पत्तिसम्भावना महती भवति । परिकरश्लोकश्चात्र कथाशरीरमुत्पाद्य वस्तु कार्यं तथा तथा । यथा रसमयं सर्वमेव तत्प्रतिभासते ॥ तत्र चाभ्युपायः सम्यग् विभावाद्यौचित्यानुसरणम् । तच्च दर्शितमेव । १. 'अभिनेयत्वाद्' नि० अभिनेयस्य' नि०, दी० । २. 'सम्भोगशृङ्गारविषयत्वात्' नि०, दी० । ३. 'असह्यता' नि०, दी। ४. अभिनेयार्थे च' नि०, दी। ५. 'असह्यम्' नि०, दी। ६. 'भरतादिस्थिति नि०, दी०। ७. 'रसवतीषु कथासु' नि०, दी० । ८. 'सर्वमेवैतत्' नि०, दी० ।
SR No.023029
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorG S Shah
PublisherParshva Publication
Publication Year1996
Total Pages428
LanguageGujarati
ClassificationBook_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy