SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ ૧૫૦ तृतीय उद्योतः एवं व्यङ्ग्यमुखेनैव ध्वनेः प्रदर्शिते सप्रभेदे स्वरूपे पुनर्व्यञ्जकमुखेनैतत् ' प्रकाश्यते अविवक्षितवाच्यस्य पदवाक्यप्रकाशता । तदन्यस्यानुरणनरूपव्यङ्ग्यस्य च ध्वनेः || १॥ १.१-अविवक्षितवाच्यस्यात्यन्ततिरस्कृतवाच्ये प्रभेदे पदप्रकाशता यथा महर्षेर्व्यासस्य 'सप्तैताः समिधः श्रियः । ' यथा वा कालिदासस्य 'कः सन्नद्धे विरहविधुरां त्वय्युपेक्षेत जायाम् ।' यथा वारे ધ્વન્યાલોક 'किमिव हि मधुराणां मण्डनं नाकृतीनाम् ।' एतेषूदाहरणेषु 'समिध:' इति 'सन्नद्धे' इति 'मधुराणाम्' इति च पदानि व्यञ्जकत्वाभिप्रायेणैव कृतानि । १.२ - तस्यैवार्थान्तरसङ्क्रमितवाच्ये यथा 'रामेण प्रियजीवितेन तु कृतं प्रेम्णः प्रिये नोचितम् ।' अत्र रामेण इत्येतत् पदं साहसैकरसत्वादिव्यङ्गयाभिसंक्रमितवाच्यं व्यञ्जकम् । यथा वा एमेअ जणो तिस्सा देउ कवोलोपमाइ ससिबिंबम् । परमत्थविआरे उण चंदो चंदो विअ वराओ | (एवमेव जनस्तस्या ददाति कपोलोपमायां शशिबिम्बम् । परमार्थविचारे पुनश्चन्द्रश्चन्द्र एव वराकः ॥ इति च्छाया) अत्र द्वितीयश्चन्द्रशब्दोऽर्थान्तरसङ्क्रमितवाच्यः । : -अविवक्षितवाच्यस्यात्यन्ततिरस्कृतवाच्ये प्रभेदे वाक्यप्रकाशता यथाया निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः || / अनेन वाक्येन निशार्थो न च जागरणार्थः कश्चिद् विवक्षितः । किं तर्हि ? तत्त्वज्ञाना वहितत्वम् अतत्त्वपराङ्मुखत्वं च मुनेः प्रतिपाद्यत इति तिरस्कृतवाच्यस्यास्य व्यञ्जकत्वम्। १. 'तत्' नि०, दी० । २. 'स्वप्रभेद' नि० । ३. 'तस्यैव' नि, दी० भां वधु छे. ४. ' (न) निशार्थो न (वा) जागरणार्थ:' दी० । 'न जागरणार्थः ' नि० ।
SR No.023029
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorG S Shah
PublisherParshva Publication
Publication Year1996
Total Pages428
LanguageGujarati
ClassificationBook_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy