SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ ૧૪૪ વિન્યાલોક रम्या इति प्राप्तवतीः पताका राग' विविक्ता इति वर्धयन्तीः। यस्यामसेवन्त नमवलीकाः समं वधूभिर्वलभीर्युवानः ।। अत्र वधूभिः सह वलभीरसेवन्तेति वाक्यार्थप्रतीतेरनन्तरं वध्व इव वलभ्य इति श्लेषप्रतीतिरशाब्दाप्यर्थसामर्थ्यान्मुख्यत्वेन वर्तते । यथासंख्यध्वनिर्यथा अङ्कुरितः पल्लवितः कोरकितः पुष्पितश्च सहकारः । अङ्कुरितः पल्लवितः कोरकितः पुष्पितश्च हृदि मदनः ।। अत्र हि यथोद्देशमनूद्देशे यच्चारुत्वमनुरणनरूपं मदनविशेषणभूताङ्कुरितादिशब्दगतं तन्मदनसहकारयोस्तुल्ययोगितासमुच्चयलक्षणाद् वाच्यादतिरिच्यमानमालक्ष्यते । ___ एवमन्येऽप्यलङ्कारा यथायोगं योजनीयाः ।।२७।। एवमलङ्कारध्वनिमार्ग व्युत्पाद्य तस्य प्रयोजनवत्तां स्थापयितुमिदमुच्यते शरीरीकरणं येषां वाच्यत्वे न व्यवस्थितम् । तेऽलङ्काराः परां छायां यान्ति ध्वन्यङ्गतां गताः ॥२८॥ ध्वन्यङ्गता चोभाभ्यां प्रकाराभ्यां व्यञ्जकत्वेन व्यङ्ग्यत्वेन च । तत्रेह प्रकरणाद् व्यङ्ग्यत्वेनेत्यवगन्तव्यम् । व्यङ्ग्यत्वेऽप्यलङ्काराणां प्राधान्यविवक्षायामेव सत्यां ध्वनावन्तःपातः । इतरथा तु गुणीभूतव्यङ्गयत्वं प्रतिपादयिष्यते ॥२८।। __ अङ्गित्वेन व्यङ्ग्यतायामपि अलङ्काराणां द्वयी गतिः । कदाचिद् वस्तुमात्रेण व्यज्यन्ते कदाचिदलङ्कारेण । तत्र व्यज्यन्ते वस्तुमात्रेण यदालङ्कृतयस्तदा । ध्रुवं ध्वन्यङ्गता तासाम्, अत्र हेतुः ___काव्यवृत्तेस्तदाश्रयात् ॥२९॥ यस्मात् तत्र तथाविधव्यङ्ग्यालङ्कारपरत्वेन काव्यं प्रवृत्तम् । अन्यथा तु तंद्वाक्यमात्रमेव स्यात् ॥२९॥ १. कामम्' नि०। २. 'विवर्तते' नि०, दी। १. 'काव्यवृत्तिस्तदाश्रया' बालप्रिया सं०।
SR No.023029
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorG S Shah
PublisherParshva Publication
Publication Year1996
Total Pages428
LanguageGujarati
ClassificationBook_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy