SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ १४० દવન્યાલોક यथा वा ममैव लावण्यकान्तिपरिपूरितदिङ्मुखेऽस्मिन् स्मेरेऽधुना तव मुखे तरलायताक्षि । क्षोभं यदेति न मनागपि तेन मन्ये सुव्यक्तमेव जलराशिरयं पयोधिः ।। इत्येवंविधे विषयेऽनुरणनरूपरूपकाश्रयेण' काव्यचारुत्वव्यवस्थानाद् रूपकध्वनिरिति व्यपदेशो न्याय्यः । २७.२ उपमाध्वनिर्यथा वीराणं रमइ घुसिणरुणम्मि ण तहा पिआथणुच्छङ्गे । दिट्ठी रिउगअकुंभत्थलम्मि जह बहलसिन्दूरे ।। (वीराणां रमते घुसृणारुणे न तथा प्रियास्तनोत्सङ्गे । दृष्टी रिपुगजकुम्भस्थले यथा बहलसिन्दूरे ॥ इति च्छाया) यथा वा ममैव विषमबाणलीलायामसुरपराक्रमणे कामदेवस्य तं ताण सिरिसहोअररअणाहरणम्मि हिअअमेक्करसम् । बिम्बाहरे पिआणं णिवेसिअं कुसुमबाणेन ।। (तत्तेषां श्रीसहोदररत्नाहरणे हृदयमेकरसम् । - बिम्बाधरे प्रियाणां निवेशितं कुसुमबाणेन ।। इति च्छाया) आक्षेपध्वनिर्यथा स वक्तुमखिलान् शक्तो हयग्रीवाश्रितान् गुणान् । योऽम्बुकुम्भैः परिच्छेदं ज्ञातुं शक्तो महोदधेः ।। अत्रातिशयोक्त्या हयग्रीवगुणानामवर्णनीयताप्रतिपादनरूपस्यासाधारणतद्विशेषप्रकाशनपरस्य आक्षेपस्य प्रकाशनम् । २७.३ अर्थान्तरन्यासध्वनिः शब्दशक्तिमूलानुरणनरूपव्यङ्गयोऽर्थशक्तिमूलानुरणनरूपव्यङ्ग्यश्च सम्भवति । तत्राद्यस्योदाहरणम् दैव्वाएत्तम्मि फले कि कीरइ एत्तिअं पुणा भणिमो । कंकिल्लपल्लवाः पल्लवाणं अण्णाणं ण सरिच्छा ।। (दैवायत्ते फले किं क्रियतामेतावत् पुनर्भणामः । रक्ताशोकपल्लवाः पल्लवानामन्येषां न सदृशाः ॥ इति च्छाया) पदप्रकाशश्चायं ध्वनिरिति वाक्यस्यार्थान्तरतात्पर्येऽपि सति न विरोधः । द्वितीयस्योदाहरणं यथा हिअअट्ठाविअमण्णुं अवरुण्णमुहं हि मं पसाअन्त । अवरद्धस्स वि ण हु दे पहुजाणअ रोसिउं सक्कम् ।। (हृदयस्थापितमन्युमपरोषमुखीमपि मां प्रसादयन् । अपराद्धस्यापि न खलु ते बहुज्ञ रोषितुं शक्यम् ॥ इति च्छाया) १. अनुरणनरूपकाश्रयेण' नि०, दी०। २. 'पराक्रमे' दी०। ३. 'तद्विशेषप्रतिपादनपरस्य' दी।
SR No.023029
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorG S Shah
PublisherParshva Publication
Publication Year1996
Total Pages428
LanguageGujarati
ClassificationBook_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy