SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। शयेन तिरस्कारेण प्रियतमाविरहानलेन च दूयमानमनाः कुत्रापि निर्वृतिमलभमानः वकृतां गङ्गालहरी पठन्प्रावृषि प्रवृद्धे गङ्गाप्रवाहे झम्पामदत्त, निममज च तत्रैव." एवमन्या अपि नानाविधाः पण्डितराजविषयिण्यो जनश्रुतयः श्रूयन्ते. एताः सर्वा अपि प्रमाणशून्या इत्युपेक्ष्य पण्डितराजप्रणीतग्रन्थेभ्यो यदवगतं यच्चानुमितं तदेवात्र सप्रमाणमस्माभिः पुरस्क्रियते आसीत्तैलङ्गाभिजनो वेगिनाडकुलोत्पन्नः पेभट्टाख्यो महीसुरसत्तमः, यो वाराणस्यां ज्ञानेन्द्रभिक्षोर्वेदान्तशास्त्रम् , महेन्द्रपण्डिताच्यायवैशेषिकदर्शने, खण्डदेवात्पूर्वमीमांसाम् , शेषोपाह्ववीरेश्वरपण्डिताच महाभाष्यमधीतवान्. तस्मालक्ष्मीनामिकायां तद्धमपत्न्यां जगन्नाथो जन्म लेभे, पठितवांश्च निखिलानि शास्त्राणि प्रायः स्वपितुरेव. प्राप्तयौवनश्चाश्रयेच्छया दिल्लीनगरे समागत्य शक्रोपमवैभवस्य शाहजहानाभिधयवनसार्वभौमस्य संसदि प्रवेशं लब्धवान्. अधिगतवांश्च निजविद्याचमत्कारपरितोषितात्तस्मादेव पण्डितराजपदवीम्. स्थितश्च मध्यमे वयसि प्रायस्तत्रैव तत्समीपे तत्सूनोर्दाराशिकोहस्य समीपे च. शाहजहानमहिपतिस्तु १६२८ ख्रिस्ताब्दे राजसिंहासनमधिरूढः, १६५८ ख्रिस्ताब्दे औरङ्गजेवनाम्ना वपुत्रेण कारागारे निवेशितः, १६६६ ख्रिस्ताब्दे च पञ्चवं गतः. दाराशाहस्तु प्रागेव दुर्दशामनुभाव्य औरङ्गजेबेन घातितः. पण्डितराजोऽपि वाधके काश्यां मथुरायां वा गवा परमेश्वराराधनेन वयःशेषं नीतवान्. तस्मात्रिस्ताब्दीयसप्तदशशतकमध्यभागे पण्डितराज आसीदिति सुव्यकमेव. १. 'तैलङ्गान्वयमङ्गलालय-' इत्यादि प्राणाभरणसमाप्तिस्थे पद्ये, अग्रे समुद्धते आसफविलासप्रारम्भस्थे गये च स्फुटमस्य तैलङ्गलम्. २. केषुचिद्भामिनीविलासपुस्तकेषु समाप्तौ 'इति श्रीमदखिलान्ध्रवेगिनाडिकुलावतंस-' इत्यादि समुपलभ्यते. ३. पेरुभट्टस्य पेरमभट्ट इत्यपि नामान्तरं प्राणाभरणान्ते समुपलभ्यते. ४. सिद्धान्तकौमुदीटीकायास्तत्त्वबोधिन्याः कर्तायं ज्ञानेन्द्रभिक्षुः स्यात्. ५. खपितुर्गुरोः शेषोपाह्ववीरेश्वरपण्डितादपि किंचिदधीतवानिति मनोरमाकुचमर्दनारम्भे समुपलभ्यते. ६. 'अथ सकललोकविस्तारविस्तारितमहोपकारपरम्पराधीनमानसेन प्रतिदिनमुद्यदनवद्यगद्यपद्याद्यनेकवियाविद्योतितान्तःकरणैः कविभिरुपास्यमानेन कृतयुगीकृतकलिकालेन कुमतितृणजालसमाच्छादितवेदवनमार्गविलोकनाय समुद्दीपितसुतर्कदहनज्वालाजालेन मूर्तिमतेव नव्वा. बासफखानमनःप्रसादेन द्विजकुलसेवाहेवाकिवाड्मनःकायेन माथुरकुलसमुद्रेन्दुना रायमुकुन्देनादिष्टेन सार्वभौमश्रीशाहजहांप्रसादादधिगतपण्डितराजपदवी विराजितेन तैलङ्गकुलावतंसेन पण्डितजगन्नाथेनासफविलासाख्येयमाख्यायिका निरमीयत । सेयमनुग्रहेण सहृदयानामनुदिनमुल्लासिता भवतात् ।' एतद्द्यमासफविलासप्रारम्भे समुपलभ्यते. ७. 'दिल्लीवल्लभपाणिपल्लवतले नीतं नवीनं वयः' इति भामिनीविलासान्ते 'वर्तते. ८. जगदाभरणे दाराशाहस्यैव वर्णनं कृतमस्ति. ९. भामिनीविलासान्ते 'संप्रत्यन्धकशासनस्य नगरे तत्त्वं परं चिन्त्यते' इत्यस्ति. केषुचित्पुस्तकेषु 'संप्रत्युज्झितवासनं मधुपुरीमध्ये हरिः सेव्यते' इत्यपि पाठः समुपलभ्यते. तत्रान्धकशासनस्य नगरं काशी, मधुपुरी च मथुरेति ज्ञेयम्.
SR No.023028
Book TitleRasgangadhar
Original Sutra AuthorN/A
AuthorJagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1930
Total Pages552
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy