SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ ५१६ काव्यमाला। अथ सामान्यम् प्रत्यक्षविषयस्यापि वस्तुनो बलवत्सजातीयग्रहणकृतं तद्भिनत्वेनाग्रहणं सामान्यम् ॥ मीलिते तु निगृह्यमानवस्तु न प्रत्यक्षविषय इति न तत्रातिव्याग्निः । उदाहरणम् 'यस्मिन्हिमानीनिकरावदाते चन्द्रांशुकैवल्यमिव प्रयाते ।। • पुच्छाश्रयाभ्यां विकला इवाद्रौ चरन्ति राकासु चिरं चमर्यः ॥' . अत्र चन्द्रिकान्तः पृथक्त्वेन हिमाचलचमरीपुच्छयोरदर्शनादुत्प्रेक्षोत्पत्तिरिति तस्यां सामान्यं गुणः। केचित्तु-"प्रागुक्तलक्षणे 'भिन्नत्वेनाग्रहणं' इत्यपहाय 'भिन्नजातीयत्वेनाग्रहणं' इति वक्तव्यम् । तेन व्यक्तिभेदग्रहेऽपि सामान्यमेवालं. कारः । यथा 'स्तबकभरैर्ललिताभिश्चलिताभिर्मारुतैर्नृप लताभिः । वृतमुपवनमेवासीदरिमहिलानां महावनं भवतः ॥' ___ अत्र महावनमिति महावनकार्यस्य निलयनस्य संपादनात् । तच्च तासां प्रत्यक्षेण त्वदीयैर्भटैलताभिः सह तत्तद्व्यक्तितया भिन्नत्वेन ग्रहेऽपि भिन्नजातीयत्वेनाग्रहणान्निष्पद्यते । पूर्वमते त्वत्रालंकारान्तरमभ्युपेयं स्यात्" इत्याहुः। ___ ननु भेदाग्रह एव मीलितसामान्यतद्गुणसाधारण एकोऽलंकारोऽस्तु । किमलंकारत्रयेण । मीलिते तावत्प्रकृताप्रकृतधर्मिगुणानां भेदाग्रह उपपादित एव । सामान्ये केषांचिद्गुणगुणिभेदाग्रहः, केषांचित्त्वचिदयं कचिजातिमात्रभेदाग्रहश्च । लद्गुणेऽपि रक्तगुणे रञ्जकगुणभेदाग्रहः । न चावान्तरभेदसत्त्वान्नैकालंकारत्वमुपपद्यत इति वाच्यम् । लुप्तोपमादितः पूर्णोपमादेः पृथगलंकारतापत्तेः । तस्माद्भेदाग्रहस्य त्रयो मीलितादयो प्राग्वदाह-अथेति । निलयनं गोपनम् । तासां निलयनं च । विच्छित्तिश्चम
SR No.023028
Book TitleRasgangadhar
Original Sutra AuthorN/A
AuthorJagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1930
Total Pages552
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy