SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ रसगङ्गाधरः। ५०१ पदार्थस्यैवाभेदाध्यवसानं 'कनकलतायां विराजते चन्द्रः' इत्यादौ दृष्टम् , न तु व्यवहारेण व्यवहारस्येत्यविषय एवायमतिशयोक्तेः । नापि साहश्यमूलयाप्रस्तुतप्रशंसया । धयंशेऽप्रस्तुतत्वविरहात् । नापि निदर्शनया । एकधर्मिगतव्यवहारद्वयोपादान एव तस्याः इष्टेः । अत एव 'उपात्तयोः' इति तल्लक्षणे विशेषणमुक्तम् । प्रकृते च प्रकृतव्यवहारस्यानुपात्तत्वादलंकारान्तरमेव । एवं च . . 'क्क सूर्यप्रभवो वंशः क चाल्पविषया मतिः। तितीपुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ॥' इत्यत्र काव्यप्रकाशकारो यन्निदर्शनामुदाहात्तिदसंगतमेव । ललितस्यावश्याभ्युपगम्यत्वान्निदर्शनाया अत्राप्राप्तेश्च । तदित्थं ललितस्यालंकारान्तरत्वमुरीकुर्वतामाशयः । - अन्ये तु "ललितं नालंकारान्तरम् । निदर्शनयैव गतार्थत्वात् । नन्वेकधर्मिगतप्रस्तुताप्रस्तुतव्यवहारद्वयोपादानजीविता निदर्शना कथमप्रस्तुतव्यवहारमात्रोपादाने पदमाधत्तामिति चेत्, श्रूयतामायुष्मता । इह तावदलंकाराः प्रायशः श्रौता आर्थाश्च संभवन्ति । तत्र श्रौतेभ्य आर्था न पृथगलंकारत्वेन गण्यन्ते । किं तु पृथग्भेदत्वेन । तदलंकारसामान्यलक्षणेन क्रोडीकरणात् । इदं पुनर्वाक्यार्थनिदर्शनाखरूपम्-व्यवहारद्वयवद्धर्म्यभेदप्रतिपादनाक्षिप्तो व्यवहारद्वयाभेदः । तत्र व्यवहारद्वयवद्धHभेदस्य प्रतिपादनं श्रौतमेवापेक्षितमिति न नियमः । किं तु प्रति. पादनमात्रम् । तेन 'परद्रव्यं हरन्मयों गिलति क्ष्वेडसंचयम्' इत्यत्र व्यवहारद्वयवद्धर्मिणोरभेदस्य श्रुत्या प्रतिपादन इव 'धिक्परखं तथाप्येष गिलति क्ष्वेडसंचयम्' इत्यत्रार्थप्रकृतव्यवहारवद्धर्मिश्रौताप्रकृतव्यवहारवद्धर्मिणोरा भेदस्य प्रतिपादनेऽपि वाक्यार्थनिदर्शनात्वमक्षतम् । एकत्र श्रौतीत्वमपरत्रार्थीत्वमिति तु विशेषो न वार्यते । पदार्थनिदर्शनाखरूपं तूपमानोपमेयधर्मयोरभेदाध्यवसायमूल उपमेय उपमानधर्मसंबन्ध इति पृथगेव । एतदुभयान्यतरत्वं च प्राचीनरीत्या सामान्यलक्षणम् । यदि U . - प्राग्वंदाह-अथेति । प्रशंसया गतार्थता इत्यस्यानुषङ्गः । एवमग्रेऽपि । एवं चेत्य... स्मार्थ स्पष्टयति-ललितेति । पदं स्थानम् । पुनस्त्वर्थे । ललितमेवेति । न तुर(?)
SR No.023028
Book TitleRasgangadhar
Original Sutra AuthorN/A
AuthorJagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1930
Total Pages552
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy