SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ F ४९८ काव्यमाला | 'वल्मीकोदरसंभूतकपिकच्छूसहोदराः । हा पीडयित्वा निघ्नन्ति सज्जनान्दुष्टदृष्टयः ॥ अत्र कपिकच्छू सहोदरत्वेन मारकत्वं न प्राप्नोति, अपि तु पीडाजन`कत्वमात्रम् । कवेस्तु पीडां जनयित्वा मारयन्तीत्येवंरूपोऽतिशयो विवक्षितः । अतो वल्मीकोदरसंभूतत्वं. सर्पाधिकरणवृत्तितारूपं कपिकच्छूविशेषणं मारकतावच्छेदकत्वेन खप्रतिभया कविना कल्पितम् । यथा वा'मन्थाचलभ्रमणवेगवशंवदा ये दुग्धाम्बुधेरुदपतन्नणवः सुधायाः । तैरेकतामुपगतैर्विविधौषधीभि धता ससर्ज तव देव दयाहगन्तान् ॥' अत्र दृगन्तेषु न केवलं संजीवकत्वादयोऽमृतमात्रगुणा एव कवेर्बु - बोधयिषिताः, अपि तु निखिलजनवशीकारकत्वादयोऽन्येऽपीति सुधाकणेष्वौषधीसंसर्गे विशेषणतयातिशयार्थमुपात्तः । उत्पाद्योत्पादकभावश्चात्र -न लोकसिद्धः, अपि तु कविमात्रनिबद्धः । यथा वा'त्वदङ्गणसमुद्भूता सिक्ता कुङ्कुमवारिभिः । त्वदङ्गतुलनां याति कदाचिल्लवलीलता ॥' अत्र केवलाया लवल्या उपमानताभरसहनसामर्थ्यस्याभावात्तस्य सिद्ध नायिकासामानाधिकरण्यकुङ्कुमजलसंयोगयोरुपादानम् । अत्र च धर्मिविशेषसंसर्गादतिशयो धर्म्यन्तरगतो यद्यागूरण विषयस्त दैवायमलंकारः । वाच्यवृत्त्या तत्तत्प्रयुक्तत्वेनाभिहितश्चेत्समालंकारस्यैव विषयः । यथा— ' त्वत्तो जन्म हिमांशुशेखरतनुज्योत्स्नानिमग्नात्मनो दुग्धाम्भोनिधिमुग्धवीचिवलयैः साकं परिक्रीडनम् । संवासः सुरलोकसिन्धुपुलिने वादः सुधांशोः करैः कस्मान्नोज्ज्वलिमानमञ्चतितमां देव त्वदीयं यशः ॥' प्राग्वदाह- अथेति । कपिकच्छूर्बृश्चिकः । लवली 'रायआंवळे' 'हरफारेवडी' |
SR No.023028
Book TitleRasgangadhar
Original Sutra AuthorN/A
AuthorJagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1930
Total Pages552
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy