SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। तत्र शृङ्गारो द्विविधः । संयोगो विप्रलम्भश्च । रतः संयोगकालावच्छिन्नत्वे प्रथमः । वियोगकालावच्छिन्नत्वे द्वितीयः । संयोगश्च न दंपत्योः सामानाधिकरण्यम् । एकतल्पशयनेऽपादिसद्भावे विप्रलम्भस्यैव वर्णनात् । एवं वियोगोऽपि न वैयधिकरण्यम् । दोषस्योक्तत्वात् तस्माद्वाविमौ संयोगवियोगाख्यावन्तःकरणवृत्तिविशेषौ । यत्संयुक्तो वियुक्तश्वासीति धीः । तत्राद्यो यथा 'शयिता सविधेऽप्यनीश्वरा' (१० पृष्ठे ) इत्यत्र निरूपितः। __ यत्तु चित्रमीमांसायाम्—'वागर्थाविव संपृक्तौ इत्यत्र रसध्वनिः । निरतिशयप्रेमशालिताव्यञ्जनात्' इति, तद्धनिमार्गानाकलननिबन्धनम् । पार्वतीपरमेश्वरविषयककविरतौ प्रधाने निरतिशयप्रेम्णो गुणीभावात् । न हि गुणीभूतस्य रत्यादे रसध्वनिव्यपदेशहेतुत्वं युक्तम् । 'भिन्नो रसाधलंकारादलंकार्यतया स्थितः' इति सिद्धान्तात् । द्वितीयो यथा'वाचो माङ्गलिकीः प्रयाणसमये जल्पत्यनल्पं जने केलीमन्दिरमारुतायनमुखे विन्यस्तवक्त्राम्बुजा । निःश्वासग्लपिताधरोपरि पतद्वाप्पावक्षोरुहा बाला लोलविलोचना शिव शिव प्राणेशमालोकते ॥' अत्राप्यालम्बनस्य नायकस्य, निःश्वासाश्रुपातादेरनुभावस्य, विषादचिन्तावेगादेश्च व्यभिचारिणः, संयोगादतिरभिव्यज्यमाना वियोगकालावच्छिन्नत्वाद्विपलम्भरसव्यपदेशहेतुः । यथा वा'आविर्भूता यदवधि मधुस्यन्दिनी नन्दसूनोः कान्तिः काचिन्निखिलनयनाकर्षणे कार्मणज्ञा । राधकृत् । उक्तन्यायेन वीरादिष्वपि बोध्यमित्याह-एवमिति । एकतल्पेति । एकखट्दायां निद्रायामपीत्यर्थः। एवमित्यस्यार्थमाह-दोषेति।ईर्ष्याद्यभावे वैयधिकरण्येऽपि संभोगस्यैव वर्णनादित्यर्थः । यद्यस्मात् । तत्राद्यः शयितेति पाठः । यथेति पाठे तथेति शेषः । माङ्गलिकीर्मङ्गलफलकाः । मारतेति । गवाक्षविवर इत्यर्थः । निःश्वासैगर्लपितो
SR No.023028
Book TitleRasgangadhar
Original Sutra AuthorN/A
AuthorJagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1930
Total Pages552
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy