SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ रसगङ्गाधरः। ४७१ अथार्थान्तरन्यासः सामान्येन विशेषस्य विशेषेण सामान्यस्य वा यत्समर्थनं तदथोन्तरन्यासः ॥ समर्थनं चेदमेवमनेवं वा स्यादिति संशयस्य प्रतिबन्धक इदमित्थमेवेति दृढप्रत्ययः । निश्चय इति यावत् । तत्र प्रकृतयोः सामान्यविशेषयोः समर्थ्यत्वम् , अप्रकृतयोर्विशेषसामान्ययोः समर्थकत्वं प्रायशो दृश्यते । तच्च तावत्साधर्म्यवैधाभ्यां द्विविधम् । उदाहरणम् 'करिकुम्भतुलामुरोजयोः क्रियमाणां कविभिर्विशृङ्खलैः। कथमालि शृणोषि सादरं विपरीतग्रहणा हि योषितः ॥' अत्र संबोध्यकर्तृकस्य तदीयकुचवृत्तिकरिकुम्भतुलासादरश्रवणस्यानौचित्यं प्रतिपाद्यते । तच्च तस्यानिष्टसाधनत्वे संगच्छते । अनिष्टसाधनत्वमपि तादृशश्रवणमिष्टसाधनमिति बुद्ध्या श्रवणं कुर्वाणायाः कान्ताया भ्रान्तात्वं विना दुरुपपादमिति स्त्रीत्वेन प्रान्तात्वं प्रतिपाद्यते । तच्च संबोध्यस्त्रीविशेषभ्रान्तत्वरूपस्य विशेषस्य सामान्यं समर्थकं च । 'उपकारमेव कुरुते विपद्गतः सद्गुणो नितराम् । मूच्छी गतो मृतो वा रोगानपहरति पारदः सकलान् ॥' अत्र विपद्तसद्गुणकर्तृकोपकारस्य सामान्यस्य प्रकृतस्य मूञ्छितमृतपारदकर्तृकं रोगापहरणं विशेषः, उदाहरणतया समर्थकं च । पादवृत्तान्ते प्रकृते तु पूर्वार्धोत्तरार्धयोर्व्यत्यासे कृते सामान्यस्य विशेषसमर्थकताप्यत्रैव संभवति 'अहन्नेको रणे रामो यातुधानाननेकशः। असहाया महात्मानो यान्ति कांचन वीरताम् ॥ अत्र विशेषस्य सामान्यं समर्थकम् । वैपरीत्ये तु सामान्यस्य विशेषः । ‘असहाया-' इत्याधुत्तरार्धमपास्य 'नूनं सहायसंपत्तिमपेक्षन्ते बलोज्झिताः' इति कृते विशेषो वैधम्र्येण सामान्यस्य । अर्धवैपरीत्ये दुर्बलवृत्तान्ते प्रकृते दोषः । अत्र मनं अन्तरितः गता इति क्रिया अन्तर्भावितण्यर्थाः । तादृशक्रियाकर्मीभूतेन्दीवरादयो दैवनिष्ठत्वात्तत्सादृश्यदर्शनजन्यसुखासहिष्णुलोपपादकाः मजितवाद्युपपादकानि खन्नेत्रसमानकान्तीत्यादिकानीति बोध्यम् ॥ इति रसगङ्गाधरमर्मप्रकाशे काव्यलिङ्गप्रकरणम् ॥ . . ......... ..... ... ..
SR No.023028
Book TitleRasgangadhar
Original Sutra AuthorN/A
AuthorJagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1930
Total Pages552
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy