SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ काव्यमाला । गुरूदेवतापुत्राद्यालम्बनस्तु व्यभिचारी । पुत्रादिवियोगमरणादिजन्मा वैक्लव्याख्यश्चित्तवृत्तिविशेषः शोकः ॥ स्त्रीपुंसयोस्तु वियोगे जीवित्वज्ञानदशायां वैक्लव्यपोषिताया रतेरेव प्राधान्याच्छृङ्गारो विप्रलम्भाख्यो रसः । वैक्लव्यं तु संचारिमात्रम् । मृतत्वज्ञानदशायां तु रतिपोषितस्य वैक्लव्यस्येति करुण एव । यदा तु सत्यपि मृतत्वज्ञाने देवताप्रसादादिना पुनरुज्जीवनज्ञानं कथंचित्स्यात्, तदालम्बनस्यात्यन्तिकनिरासाभावाच्चिरप्रवास इव विप्रलम्भ एव न स करुणः । यथा चन्द्रापीडं प्रति महाश्वेतावाक्येषु । केचित्तु रसान्तरमेवात्र करुणविप्रलम्भाख्यमिच्छन्ति । नित्यानित्यवस्तुविचारजन्मा विषय विरागाख्यो निर्वेदः ॥ गृहकलहादिजस्तु व्यभिचारी । गुरुबन्धुवधादिपरमापराधजन्मा प्रज्वलनाख्यः क्रोधः ॥ अयं च परविनाशादिहेतुः । क्षुद्रापराधजन्मा तु परुषवचनासंभाषणादिहेतुः । अयमेवामर्षाख्यो व्यभिचारीति विवेकः । परपराक्रमहानादिस्मृतिजन्मा औन्नत्याख्य उत्साहः ॥ अलौकिकवस्तुदर्शनादिजन्मा आश्चर्याख्यो विस्मयः ।। वागङ्गादिविकारदर्शनजन्मा विकासाख्यो हासः ॥ व्याघ्रदर्शनादिजन्मा परमानर्थविषयको वैक्लव्याख्यः स भयम् ॥ परमानर्थविषयकत्वाभावे तु स एव त्रासो व्यभिचारी । अपरे तु औत्पातिकप्रभवस्त्रासः, खापराधद्वारोत्थं भयमिति भयत्रासयोर्भेदमाहुः । ३२ दलंकार इत्यर्थः । तान्क्रमेण लक्षयति-तत्र तेषां मध्ये | आदिना नृपादिपरिग्रहः । शोकं लक्षयति - पुत्रादीति । पुत्रादीत्युक्तिफलमाह - स्त्रीपुंसेति । वियोग उक्त्वा मरण आह—मृतत्वेति । वैक्लव्यस्येति । प्राधान्यमिति शेषः । एवादावादिनेत्यस्य पुनरुज्जीवनेऽत्यन्वयः । कथंचित्केनापि प्रकारेण । एव न स इति । विप्रलम्भ एव सः, न करुण इत्यर्थः । अत्र पुनरुज्जीवनस्थले । उक्तरीत्यैव निर्वाहेऽधिकतत्स्वीकारो वृथेत्यरुचिः केचिदित्यनेन सूचिता । वधादिति । वधादिरूपो यः परमापराधस्तज इत्यर्थः । परमानर्थेति । मरणादिसंपादकेत्यर्थः । स चित्तवृत्तिविशेषः । त्रासखदाख्यः । विभावाद
SR No.023028
Book TitleRasgangadhar
Original Sutra AuthorN/A
AuthorJagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1930
Total Pages552
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy