SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ ४५४ काव्यमाला । अत्र सावकाशतयेत्यनेन कल्पितया आधेयन्यूनतयां आधारस्य महत्त्वं पर्यवस्यति । यदि तु सावकाशतयेति विशेषणं विश्वाश्रय इत्यत्रापि योज्यते तदा शृङ्खलारूपस्याधाराधिकालंकारस्येदमेवोदाहरणम् । 'ब्रह्माण्डमण्डले भान्ति न ये पिण्डीकृता अपि । परस्परापरिचिता वसन्ति त्वयि ते गुणाः ॥ ' अत्रोभयविधस्याप्यस्यालंकारस्य सामानाधिकरण्यम् । लक्षणे कल्पनमित्यनेन यत्राधाराधेययोरन्यतरस्य न्यूनत्वमधिकत्वं च वास्तवं तत्र नातिप्रसङ्गः । एवं च— 'काहं तमोमहदहंखचरामिवार्भूसंवेष्टिताण्डघटसप्तवितस्तिकायः । वेदृग्विधाविगणिताण्डपराणुचर्या - वाताध्वरोमविवरस्य च ते महित्वम् ॥ इति श्रीभागवतदशमस्कन्ध ( १४|११ ) गतं ब्रह्मस्तुतिपद्यमस्यालंकारस्यानुदाहरणमेव । दिक्कालानवच्छिन्नस्य पारमेश्वरस्य भूम्नः सर्ववेदसिद्धत्वेन कविप्रतिभानुल्लिखितत्वात् । एतेन - 'रत्र कचिदाश्रिता प्रविततं पातालमत्र कचि - त्वाप्यत्रैव धरा धराधरजलाधारावधिर्वर्तते । स्फीतस्फीतमहो नभः कियदिदं यस्येत्थमेभिः स्थितै र्दूरे पूरणमस्तु शून्यमिति यन्नामापि नास्तं गतम् ॥' इत्यलंकार सर्वस्वकारेण यदुदाहृतं तदपि प्रत्युक्तम् । इति रसगङ्गाधरेऽधिकालंकार प्रकरणम् । १. 'ननु ब्रह्माण्ड विग्रहस्त्वमपीश्वर एवेति चेत्तत्राह — काहमिति । तमः प्रकृतिः । महान्महत्तत्त्वम् । अहमहंकारः । खमाकाशः । चरो वायुः । अग्निः । वार्जलम् । भूश्च । प्रकृत्यादिपृथिव्यन्तैरेतैः संवेष्टितोऽण्डघटः स एव तस्मिन्वा स्वमानेन सप्तवितस्तिः कायो यस्य सोहं क्क, क्व च ते महित्वम् । कथंभूतस्य । ईदृग्विधानि यान्यविगणितान्यण्डानि त एव परमाणवस्तेषां चर्या परिभ्रमणं तदर्थं वाताध्वानो गवाक्षा इव रोमविवराणि यस्य यस्य तस्य तव । अतोऽतितुच्छत्वात्त्वयानुकम्प्योऽहमिति' इति भागवतटीका श्रीधरी.
SR No.023028
Book TitleRasgangadhar
Original Sutra AuthorN/A
AuthorJagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1930
Total Pages552
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy