SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ नचा पुरः काव्यमाला । रुचिनिवृत्तेरप्रत्यय एव । अन्यथा सुखहेतोर्वैराग्यलक्षणाया अरुचेर्दुःखान्तरसाधनत्वं दुरुपपादं स्यादिति भवत्युभयोदाहरणम् । परस्य दुःखसाधनानवाप्तिः खस्य दुःखान्तरसाधनप्राप्तिरित्युभयं यथा 'पुरो गीर्वाणानां पुलकितकपोलं प्रथयतो ___ भुजप्रौढिं साक्षाद्भगवति शरं संमुखयितुम् । . स्मरस्य खर्बालानयनसुममालार्चितमहो वपुः सद्यो भालानलभसितजालास्पदमभूत् ॥ परस्य सुखसाधनानिवृत्तिः खस्य दुःखसाधनप्राप्तिरित्युभयं यथा'न मिश्रयति लोचने सहसितं न संभाषते । ' कथासु तव किं च सा विरचयत्यरालां ध्रुवम् । विपक्षसुदृशः कथामिति निवेदयन्त्या पुरः प्रियस्य शिथिलीकृतः खविषयोऽनुरागग्रहः ॥'. अत्र कयाचित्प्रौढनायिकया सपत्न्यां प्रियेणाज्ञातयौवनात्वेनैव विदितायां तदनुरागप्रतिबन्धार्थं प्रियस्य पुरस्तदीयदुर्गुणानावेदयन्त्या चिकीर्षितोऽर्थो न संपादितः, स्वस्मिन्ननुरागक्षतिश्च संपादितेति यद्यपि सुखसाधननिवृत्तेर्दुःखसाधनरूपत्वान्न पृथग्गणनोचिता, तथापि दुःखसाधननिवृत्तौ सुखस्येव सुखसाधननिवृतौ प्रतिनियतकारणं जन्यत्वेन दुःखस्यानयत्यात्पृथगुपादानम् । एवमष्टावन्येऽप्युभयभेदा ऊह्याः । केवलेष्टाप्राप्तिर्यथा 'प्रभातसमयप्रभा प्रणयिनि ढुवाना रसा दमुष्य नयनाम्बुजं सपदि पाणिनामीलयत् । अनेन खलु पद्मिनीपरिमलालिपाटच्चरैः समीरशिशुकैश्चिरादनुमितो दिनेशोदयः ॥' अत्र प्रियतमकर्तृकप्रभातविषयकज्ञानाभावः कामिन्याः सुखसाधनतयेष्टः । स च तया साध्यमानोऽपि न सिद्ध इतीष्टाप्राप्तिरेव । यद्वा ताहशज्ञानं तस्या दुःखसाधनम्, तन्निवृत्तिरूपं चेष्टं साध्यमानमपि न
SR No.023028
Book TitleRasgangadhar
Original Sutra AuthorN/A
AuthorJagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1930
Total Pages552
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy