SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ ४४४ काव्यमाला । लौकिकव्यवहारगोचरता । संसर्गश्च तावविविधः-उत्पत्तिलक्षणः संयोगादिलक्षणश्च । तत्रोत्पत्तिलक्षणस्य संसर्गस्यायोग्यत्वं कारणात्स्वगुणविलक्षणगुणकार्योत्पत्त्या । इष्टसाधनतया निश्चितात्कारणादनिष्टकार्योत्पत्तिभिः संयोगादिलक्षणस्यापि । संसर्गिणोरन्यतरगुणखरूपतिरस्कार्यान्यतरगुणखरूपतया अयोग्यत्वम् । एवं चाननुरूंपसंसर्गत्वेन सामान्येनोक्ता वक्ष्यमाणाश्च सर्वे प्रभेदाः संगृह्यन्ते । क्रमेणोदाहरणानि 'अमृतलहरीचन्द्रज्योत्स्वारमावदनाम्बुजा न्यधरितवतो निर्मर्यादप्रसादमहाम्बुधेः । उदभवदयं देव त्वत्तः कथं परमोल्बण प्रलयदहनज्वालाजालाकुलो महसां गणः ॥' अत्र • माधुर्यशैत्याहादकत्वप्रसादाद्यनेकगुणयुक्तात्कारणात्तद्विरुद्धगुणयुतस्य प्रतापस्योत्पत्तिरित्यननुरूपः कार्यकारणभावः । अभेदाध्यवसानलक्षणेनातिशयेन समवायिकारणरूपतया स्थिते निमित्तकारणे समवेतकार्यरूपतया स्थिते निमित्तिकार्ये वा विषयांशमालम्ब्य स्फुरितो विरोधो विषयांशविमर्शोत्तरं निवर्तत इतीहाप्यभेदाध्यवसानस्यानुप्राणकत्वम् , तदुस्थापितविरोधाभासस्य च परिपोषकत्वम् । अयमेव चांशोऽत्र कविप्रतिभानिर्मितत्वादलंकारताबीजम् । इष्टसाधनतया ज्ञातात्कारणादनिष्टकायोत्पत्तिरित्यत्रैकशेषघटित एकशेषो बोध्यः । न इष्टमनिष्टं अनर्थः । तादृशकार्योत्पत्तिश्च । न इष्टकार्योत्पत्तिरनिष्टकार्योत्पत्तिः सा चेत्य. निष्टकार्योत्पत्ती । ते च अनिष्टकार्योत्पत्तिश्च [अनिष्टकार्योत्पत्तिश्च] अनिष्टकार्योत्पत्तयः ताभिरिति । अनेनेष्टकार्यानुत्पत्त्यनिष्टकार्योत्पत्ती मिलिते एको भेदः । प्रत्येकं च भेदद्वयम् । इति त्रयो भेदाः संगृहीता भवन्ति । इष्टं च-खस्य किंचित्सुखसाधनवस्तुप्राप्तिर्दुःखसाधनवस्तुनिवृत्तिश्च परस्य दुःखसाधनवस्तुप्रापणं सुखसाधननिवृत्तिश्चेति चतुर्विधम् । तेनेष्टाप्राप्तिघटिते भेदद्वयेऽपि चातुर्विध्यम् । अनिष्टं च-खस्य दुःख यस्य तदाह-इष्टेति । एवं सत्याह-संसर्गिणोरिति । तमेवाह-अनेत्यादि । अनिष्टकार्योत्पत्तिश्चेति । आये ना इष्टकार्योत्पत्तिशब्देन समासः, द्वितीये इष्टशब्देनेति । सुखसाधनवस्तुनाशश्चेतीति । अत्रापि परस्येत्येव बोध्यम् । गाव इ
SR No.023028
Book TitleRasgangadhar
Original Sutra AuthorN/A
AuthorJagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1930
Total Pages552
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy