SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ रसगङ्गाधरः। भणाधिकमुदेति साणम् । तदभावे तस्यभावो बात्वमेव गितावच्छेदकविशिष्टवैशिष्ट्येन श्रुत्या प्रतिपादनं तत्र विभावनाविशेषोक्त्योः शाब्दत्वम् । यथा 'भगवद्वदनाम्भोजं पश्यन्त्या अप्यहर्निशम् । तृष्णाधिकमुदेति स गोपसीमन्तिनीदृशः ॥ लोके ह्यसंनिकर्षस्तृष्णाकारणम् । तदभावे संनिकर्षेऽपि तृष्णोपनिबद्धा । तथा संनिकर्षस्तृप्तिकारणम् । तस्मिन्सत्यपि तृप्त्यभावो बोधितः । परंतु कारणाभावकार्याभावयोर्न प्रागुक्तप्रकारेण प्रतिपादनमित्यार्थत्वमेव तदुभयसंशयसंकरस्य । अमुमेव चार्थं मनसिकृत्य मम्मटभट्टैः 'यः कोमारहर!' इति पद्यमुदाहृत्योक्तम्-'अत्र स्फुटो न कश्चिदलंकारः' इति । वामनस्तु–'एकगुणहानिकल्पनायां साम्यदाय विशेषोक्तिः' इत्याह । उदाजहार च-'द्यूतं हि नाम पुरुषस्यासिंहासनं राज्यम्' इति । अत्र हि द्यूते राज्यं तादात्म्येनारोप्यते । तत्र सिंहासनरहितं हि द्यूतं सिंहासनसहितराज्यतादात्म्यं कथं वहेदित्यारोपोन्मूलकयुक्तिनिरासायारोप्यमाणे राज्येऽपि सिंहासनराहित्यं कल्प्यते । तेन दृढारोपं रूपकमेवेदम् । न विशेषोक्तिः । एवं च 'अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः । अभाललोचनः शंभुर्भगवान्बादरायणः ॥ इति पौराणपद्येऽपि रूपकमेव । तथा गुणाधिक्यकल्पनायामपि तदेव । यथा- 'धर्मों वपुष्मान्भुवि कार्तवीर्यः' इत्यादौ । एतेन ‘एकगुणहान्युपचयादिकल्पनायां साम्यदाय विशेषणम्' इति विशेषालंकारं लक्षयन्तोऽपि प्रत्युक्ताः। ___ इति रसगङ्गाधरे विशेषोक्तिप्रकरणम् । अथासंगतिःविरुद्धत्वेनापाततो भासमानं हेतुकार्ययोर्वैयधिकरण्यमसंगतिः । व्यवहार इति दिक् । न प्रागुक्तप्रकारेणेति । प्रतियोगितावच्छेदकवैशिष्टयेन श्रुत्या प्रतिपादनाभावादित्यर्थः ॥ इति रसगङ्गाधरमर्मप्रकाशे विशेषोकिप्रकरणम् ॥
SR No.023028
Book TitleRasgangadhar
Original Sutra AuthorN/A
AuthorJagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1930
Total Pages552
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy