SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ ४२५ रसगङ्गाधरः । ‘त्वां गीर्वाणगुरुं सर्वे वदन्तु कवयस्तु ते । समानकक्षस्तेनासीत्येषोऽर्थस्तु मतो मम ॥' अत्र कवेर्वाक्ये बाधितत्वादाभासरूपो नाहं कविरिति निषेधो गम्यमानो मिथ्यावादित्वाभावरूपेण पर्यवस्यन्नुत्तरार्धार्थस्य सत्यतारूपं विशेषं गमयति । इत्थं खखाभिमानभेदादा क्षेपाणां भेदात्तद्धनीनां स्थिते विवेके'स वक्तुमखिलाञ्शतो हयग्रीवाश्रितान्गुणान् । योऽम्बुकुम्भैः परिच्छेदं ज्ञातुं शक्तो महोदधेः ॥' इति पद्यं ध्वनिकारैराक्षेपध्वनित्वेनोदाहृतं 'खाभिमताक्षेपानभिव्यक्तेरनु'दाहरणमेवैतत्' इति नियुक्तिकं वदन्नलंकारसर्वस्वकृत्परास्तः । नह्याभासरूप एव निषेध आक्षेप इत्यस्ति वेदस्याज्ञा । नापि प्राचामाचार्याणाम् । न चापि युक्तिः । न येन ध्वनिकारोक्तमुपेक्ष्य त्वदुक्तं श्रद्दधीमहि । प्रत्युत वैपरीत्यमेवोचितम् । ध्वनिकृतामालंकारिकसरणिव्यस्थापकत्वात् । नह्यस्मशास्त्रे आक्षेपादिशब्दसंकेतग्राहकं प्रमाणान्तरमस्ति ऋते प्राचीनवचनेभ्यः । अन्यथा सकल विपर्यासापत्तेः । यत्तु — 'नरेन्द्र मौले न वयं राजसंदेशहारिणः । जगत्कुटुम्बिनस्तेऽद्य न शत्रुः कश्चिदिष्यते ॥' इति पद्यमलंकारसर्वस्वकारमतेनोदाहृत्येत्थमुक्तं कुवलयानन्दकृता – 'अत्र संदेशहारिणामुक्तौ न वयं संदेशहारिण इति निषेधोऽपपन्नः संधिकालोचितकैतववचनपरिहारेण यथार्थवादित्वे पर्यवस्यन्सर्वजगतीपालकस्य तव न कश्चिदपि शत्रुभावेनावलोकनीयः किंतु सर्वेऽपि राजानो भृत्यभावेन संरक्षणीया इति विशेषमाक्षिपति' इति, तन्न । त्वदुक्तस्य विशेषस्य निषेधाव्यङ्ग्यत्वात् । नहि न वयं राजसंदेशहारिण इत्युक्ते तव न कश्चिदपि शत्रुभावेनावलोकनीयः किं तु सर्वेऽपि राजानो भृत्य त्रिष्वनुषङ्गः । वैदुष्यं पाण्डित्यम् । सर्वस्वकारः परास्त इति । तद्गुणवक्ता नास्तीति निषेधस्य गुणापरिमितत्वव्यङ्ग्यसहितस्याक्षेपरूपस्य व्यङ्ग्यस्य सत्त्वादिति भावः । अलंकारसर्वस्वकारस्तु— निषेधाभास आक्षेपः । ' नाहं दूती तनोस्तापस्तस्याः कालानलोपमः' इत्युदाहरणमिति । तस्यायं भावः - यो निषेधो बाधितः सन्नर्थान्तरपर्यवसितो
SR No.023028
Book TitleRasgangadhar
Original Sutra AuthorN/A
AuthorJagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1930
Total Pages552
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy