SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ रसगङ्गाधरः। ३७५ सोक्तौ तयोः पृथक्छब्दवेद्यत्वाभावात् । किं तु प्रकृतवाक्यर्थघटकाः पदा स्तादात्म्येनाप्रकृतघटकपदार्थालीढा एवं वैशिष्टयमनुभवन्तो महावाक्यर्थरूपेण परिणमन्तीति सूक्ष्ममीक्षणीयम् । अतिशयोक्ताविवाप्रकृतेन प्रकृतस्य निगरणं तु न वाच्यम् । तस्य शब्दवाच्यत्वात् । __ अथास्याः केवलभेदा निगद्यन्ते विशेषणसाम्यं श्लेषेण भवति शुद्धसाधारण्येन वा । तदपि धर्मान्तरपुरस्कारेण कार्यपुरास्कारेण वेति प्रत्येकं द्विविधम् । तत्र 'विबोधयन्करस्पर्शः' इत्यत्र धर्मान्तरपुरस्कारेण श्लेष समुदाहृतमपि विशेषणसाम्यं पुनरुदाहियते 'उत्सङ्गे तव गङ्गे पायं पायं पयोऽतिमधुरतरम् । शमिताखिलश्रमभरः कथय कदाहं चिराय शयिताहे ॥' अत्र शिशुजननीवृत्तान्ताभेदेन स्थितः प्रकृतवृत्तान्तः । श्लिष्टकार्यपुरस्कारेणाप्युदाहृतं 'संगृह्मास्यलकान्निरस्यसि-' इत्यत्र । शुद्धसाधारण्येन धर्मान्तरपुरस्कारेण यथा 'अलंकर्तुं कर्णौ भृशमनुभवन्त्या नवरुजां ___ससीत्कारं तिर्यग्वलितवदनाया मृगदृशः । कराजव्यापारानतिसुकृतसारान्रसयतो जनुः सर्वश्लाघ्यं जयति ललितोत्तंस भवतः ॥' अत्र नवकान्तया क्लेशेन कर्णे क्रियमाणस्योत्तंसस्य वृत्तान्तः प्रत्यअखण्डिताधरकामुकवृत्तान्ताभेदेन स्थितः । यथा वा वाक्यार्थता । तदाह-वैशिष्ट्यमिति । अवान्तरवाक्यार्थयोभिन्नवादाह-महेति। तस्येति । प्रकृतस्य विशेषणमात्रप्रतिपाद्यखादित्यर्थः । तदपि द्विधा तत्साम्यमपि । धर्मान्तरेति । कार्यातिरिक्तधर्मपुरस्कारेणेत्यर्थः । कार्यातिरिक्तधर्मप्रतिपादकविशेषणसाम्येनाप्रकृतार्थोपस्थापनं कार्यरूपधर्मप्रतिपादकतत्साम्येन वेति द्वैविध्यमिति भावः। उत्सङ्गे ऊरौ मध्ये च । पायं पायं पीला पीला । पयो जलं दुग्धं च । शयिताहे इति लडुत्तमपुरुषस्यैकवचनम् । रुजाशब्दष्टावन्तः । तिर्यग्वलितेति । अतिचक्रीकृतेत्यर्थः । अतिसुकृतेति । अतिपुण्यसाररूपानित्यर्थः । रसयतोऽनुभवतः । हे रमणीकगंभूषण, सर्वस्तुत्यं तव जन्म जयतीत्यर्थः । नवकान्तया नवोढया । प्रत्यग्रेति ।
SR No.023028
Book TitleRasgangadhar
Original Sutra AuthorN/A
AuthorJagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1930
Total Pages552
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy