________________
रसगङ्गाधरः।
३७१ उभयत्रानुषक्तया तयैव शक्त्या शक्त्यन्तरेण व्यक्त्या वा सर्वथैव प्रतीयत इत्यत्र सहृदया एव प्रमाणम् । एवं च द्वाविमौ वाक्यार्थौ सव्येतरगोविषाणवदत्यन्तासंसृष्टौ यदि स्यातां तदा भगवतो भास्करस्य कामुकत्वं कमलिन्या नायिकात्वं च सकलप्रतीतिसिद्धं विरुद्धं स्यात् । द्विप्रधानत्वेन वाक्यभेदश्चापद्येत । यदि चापरोऽर्थः प्रकृतकर्तर्यारोप्यते तदा कमलिनीविकासकर्ता नायिकानुनयकर्ता च सूर्य इत्येकत्र द्वयमिति विषयताशाली बोधः स्यात् । न तु पूर्वोक्तानुपपत्तिपरिहारः । यदि च श्लेषमूलाभेदाध्यवसानेन कमलिन्यादीनां नायिकात्वादिप्रत्यय उपपाद्यते तथाप्यश्लिष्टपदोपस्थितो भगवान्नयकत्वानाघ्रात एव । पद्मिनीशब्दस्थाने नलिनीशब्दोपादाने सापि नायिकात्वेन कथं नाम प्रतीतिपथमियात् । तस्माद्विशेषणसाम्यमहिना प्रतीतोऽप्रकृतवाक्यार्थः खानुगुणं नायिकादिमर्थमाक्षिप्य तेन परिपूर्णविशिष्टशरीरः प्रकृतवाक्यार्थे खावयवतादात्म्यापन्नतदवयवोऽभेदेनावतिष्ठते । स च परिणाम इव प्रकृतात्मनैव कार्योपयोगी । खात्मना च रसाधुपयोगी । अत्र चाप्रकृतार्थस्य पृथक्शब्दानुपादानाद्रूपकाद्वाक्यार्थसंबन्धिनो वैलक्षण्यं पदार्थरूपकात्तु स्फुटमेव । आक्षिप्तार्थघटितत्वाच वाक्यार्थश्लेषात् । एवं चात्र शक्त्याक्षेपाभ्यां
काविशेषेति । खण्डितेत्यर्थः। आदिना नायकपरिग्रहः । अनुषक्तया संबद्धया । तयैव पूर्वार्थबोधिकयैव । तस्य नियन्त्रणादाह-शक्त्यन्तरेणेति । अस्यापि दुर्वचखादाह-व्यक्त्या वेति । व्यञ्जनयेत्यर्थः । एवं च उभयप्रतीतौ च । वैयाकरणमतेनाह-द्विप्रधानेति । वाक्यमेदमुद्धरति-यदि चेति । बोधः स्यादिति । तथा च न वाक्यभेद इति भावः । एवमपि प्रथमदोषानुद्धार एवेत्याह-न त्विति । तमप्युद्धरति-यदि चेति । अश्लिष्टेति । भास्करेतीत्यर्थः । भगवा. न्सूर्यः । दोषान्तरमाह-पद्मिनीति । पद्मिनीशब्दवन्नलिनीशब्दस्याश्लिष्टवादिति भावः । तेनेति । आक्षिप्तनायिकाद्यर्थेन । यतः परिपूर्णमत एव विशिष्टं शरीरं यस्सेत्यर्थः । खेति । प्रकृतवाक्यार्थेत्यर्थः । एवमप्रेऽपि । तदिति । प्रकृतवाक्याथेयर्थः । स च अप्रकृतवाक्यश्च । स्वात्मना चेति । चस्वर्थे । रूपकाद्भेदकं प्राह-अत्र चेति । समासोको चेत्यर्थः । स्फुटमेवेति । अस्या वाक्यार्थनिष्ठत्वादिति भावः । वैलक्षण्यमित्यस्यानुषङ्गः । एवमप्रेऽपि । उपसंहरति एवं चेति । उक्तदोषे चेत्यर्थः । कचित् श्लेषाभावेऽपि । प्रकारान्तरेण, न विशेषमसाम्यात्तदर्थप्रतीतिस्त्रनाक्षेपाभावेनानि