SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। यथा वा 'उन्मीलितः सह मदेन बलाबलारे___ रुत्थापितो बलभृतां सह विस्मयेन । नीलातपत्रमणिदण्डरुचा सहैव । __पाणौ धृतो गिरिधरेण गिरिः पुनातु ।' अत्र नीलातपत्रमणिदण्डरुचो गिरिधारणोत्तरकालिकत्वादुत्तरार्धगता पौर्वापर्यविपर्ययानुप्राणितैव सहोक्तिर्निदर्शनानुप्राणिता च पूर्वार्धगते तु प्रकारद्वयेनापि संभवतः । इति रसगङ्गाधरे सहोक्तिप्रकरणम् । अथ विनोक्तिःविनार्थसंबन्ध्येव विनोक्तिः॥ हृद्यत्वं चानुवर्तते । तच्च विनाकृतस्य वस्तुनो रमणीयत्वारमणीयत्वाभ्यां भवति । यथा 'संपदा संपरिष्वक्तो विद्यया चानवद्यया । नरो न शोभते लोके हरिभक्तिरसं विना ॥' यथा वा-- 'वदनं विना सुकवितां सदनं साध्वीं विना वनिताम् । राज्यं च विना धनितां न नितान्तं भवति कमनीयम् ।।' रमणीयत्वे यथापकैविना सरो भाति सदः खलजनैर्विना । कटुवर्णैर्विना काव्यं मानसं विषयैर्विना ।' उन्मूलितः समूलं खण्डितः । बलारेरिन्द्रस्य । एवेन श्लेषादिप्रकारद्वयव्यावृत्तिः । निद. र्शनेति । सदृशवाक्यार्थयोरक्यारोपादिति भावः । गते तु सहोक्ती इति शेषः । प्रकारद्वयेनेति । श्लेषभिन्न प्रकारद्वयेनेत्यर्थः ॥ इति रसगङ्गाधरमर्मप्रकाशे सहोक्तिप्रकरणम् ॥ विनोक्तिं लक्षयति-अथेति । 'विनार्थसंबन्ध एव' इति पाठः । तच्च हृद्यत्वं च । उद्देशक्रमवैपरीत्येनारमणीयत्वे तावदुदाहरति-यथेति । सदः सभा । मानसमन्तःकर.
SR No.023028
Book TitleRasgangadhar
Original Sutra AuthorN/A
AuthorJagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1930
Total Pages552
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy