SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ रसगङ्गाधरः । ३३७ तस्यादेवंजातीयकेष्वलंकारेषु पूर्ववाक्यार्थघटकनामार्थानुरूपैर्नामार्थैस्तद्घटकविभक्त्यनुरूपाभिर्विभक्तिभिस्तदन्वयरूपे चान्वयेन भाव्यमिति सहृदयहृदयं प्रष्टव्यम् । 'वहति विषधरान्पटीरजन्मा शिरसि मषीपटलं दधाति दीपः । विधुरपि भजतेतरां कलङ्कं पिशुनजनं खलु बिभ्रति क्षितीन्द्राः ॥ ' अत्र वहनाधानभजनभरणानां वस्तुत ऐकरूप्यात्प्रतिवस्तूपमेयं माला - रूपा । इति रसगङ्गाधरे प्रतिवस्तूपमाप्रकरणम् । अथ दृष्टान्तालंकारः प्रकृतवाक्यार्थघटकानामुपमानादीनां साधारणधर्मस्य च बिम्बप्र - तिबिम्बभावे दृष्टान्तः ॥ तदुक्तम् — 'दृष्टान्तः पुनरेतेषां सर्वेषां प्रतिबिम्बनम्' इति । उदाहरणम् 'सत्पूरुषः खलु हिताचरणैरमन्दमानन्दयत्यखिललोकमनुक्त एव । आराधितः कथय केन करैरुदारेरिन्दुर्विकासयति कैरविणीकुलानि ॥' अत्रानन्दनविकासयोरपि बिम्बप्रतिबिम्बभावः । अस्य चालंकारस्य प्रतिवस्तूपमया भेदकमेतदेव यत्तस्यां धर्मो न प्रतिबिम्बितः, किं तु शुद्धसामान्यात्मनैव स्थितः । इह तु प्रतिबिम्बितः । विमर्शिनीकारस्तु–‘प्रतिवस्तूपमायामप्रकृतार्थोपादानं तेन सह प्रकृतार्थस्य सादृश्यप्रतिपत्त्यर्थम् । दृष्टान्ते तु तदुपादानमेतादृशोऽर्थोऽन्य आनुरूप्यं सर्वथा अपेक्षितमित्युपसंहरति — तस्मादिति । मालारूपप्रतिवस्तूपमामुदाइरति - वहतीति । पटीरजन्मेति । मालारूपेति । पटीरजन्मेव दीप इत्यादिप्रती - वेरित्यर्थः । इति रसगङ्गाधर मर्मप्रकाशे प्रतिवस्तूपमाप्रकरणम् ॥ दृष्टान्तं निरूपयति—अथेति । बिम्बप्रतिबिम्बभावापन्न साधारणधर्मादिकं वाक्यार्थयोरार्थमौपम्यं दृष्टान्त इति निष्कर्षो बोध्यः । करैः किरणैः । कुलानि समूहान् । अपिना इन्दुपुरुषादिसंग्रहः । प्रतिबिम्बित इत्यस्य इतीति शेषः । तदुपेति । अप्रकृता २९ रस ०
SR No.023028
Book TitleRasgangadhar
Original Sutra AuthorN/A
AuthorJagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1930
Total Pages552
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy