________________
३१६
काव्यमाला।
इयं चातिशयोक्तिदेऽपि दृश्यते । यथा'द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषखजाते ।
तयोरन्यः पिप्पलं खाद्वत्त्यनश्नन्नन्यो अभिचाकशीति ॥' स्मृतौ च
'या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥' अथास्या ध्वनिः--
'देव त्वदर्शनादेव लीयन्ते पुण्यराशयः ।
किं चादर्शनतः पापमशेषमपि नश्यति ॥' पुण्यपापयोः सुखदुःखभोगमात्रनाश्यतया दर्शनादर्शनाभ्यां तज्जन्यसुखदुःखयो राश्यशेषशब्दाभ्यां च जन्मशतोपभोग्ययोस्तयोरेवाक्षेपादप्रिमाभ्यां पूर्वयोनिंगरणं व्यज्यते। न च पूर्वाभ्यामग्रिमयोरेव निगरणं किं न स्यात् , इति वाच्यम् । नाशोक्तिसामञ्जस्याय नाशकतावच्छेदकावच्छिन्नत्वेन प्रत्ययस्यावश्यकतया तन्निगरणासंभवात् । उपमानेन महता. क्षुद्रस्योपमेयस्य महत्त्वाधानाय निगरणस्यौचित्याच । एतेन तदप्राप्तिमहादुःख-' इत्यादिकाव्यप्रकाशो व्याख्यातः ।
इति रसगङ्गाधरेऽतिशयोक्तिप्रकरणम् ।
त्यस्याक्षेपादित्यत्रान्वयः । तयोरेव सुखदुःखयोरेव । अग्रिमाभ्यां पूर्वयोरिति । जन्मशतोपभोग्यसुखदुःखाभ्यां देवदर्शनादर्शनजन्यसुखदुःखयोरित्यर्थः । न च पूर्वाभ्यामिति । दर्शनादर्शनजन्यसुखदुःखाभ्यामेव जन्मशतोपभोग्यसुखदुःखयोरित्यर्थः । नाशकतावच्छेदकेति । पुण्यराशिनाशकलपापराशिनाशकवरूपकार्यतावच्छेदकावच्छिन्नकारणतावच्छेदकं सकलजन्मोपभोग्यसुखलादिकमेव । न तु दर्शनजन्यसुखबादिकम् । तत्तत्सुखानां खखफलोपहितपुण्यनाशकताया एव क्लुप्तत्वादिति भावः । उपेति । जन्मशतोपभोग्यसुखदुःखे उपमानम् । महत्त्वात् । दर्शनादर्शनजन्ये च ते उपमेये । क्षुद्रवात् । ध्वनिलं चात्र प्राचीनरीत्या बोध्यम् ॥ इति रसगङ्गाधरमर्मप्रकाशेऽतिशयोक्तिप्रकरणम् ॥