________________
२९७
रसगङ्गाधरः। याश्च साध्यवसानत्वाद्विषयस्यानुपादानं संगच्छते । निमित्तधर्मश्च तत्तदङ्गासक्तवृत्तित्वम् । एवम् 'लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नमः' इत्यादौ कस्यापि पद्ये न प्रथमान्तार्थे कर्तरि लेपनकर्तृत्वादेरुत्प्रेक्षणम् , तस्याख्यातार्थविशेषणत्वेनैकदेशत्वात्.। नापि लेपनादिकर्तुरभेदेन, तस्य क्रियाविशेषणत्वेनाप्राधान्यात् । किं तु तमःकर्तृकमङ्गकर्मकं लेपनमुत्प्रे. क्ष्यते । तमःकर्तृकमञ्जनकर्मकं वर्षणं च । उत्प्रेक्ष्यमाणाभ्यां च ताभ्यां विषयस्य तमःकर्तृकव्यापनस्य निगीर्णत्वादनुपादानम् । अत एव एवमादावियमनुपात्तविषयोच्यते । निमित्तधर्मश्च श्यामीकारकत्वादिरनुपात एव । अत एव 'संभावनमथोत्प्रेक्षा प्रकृतस्य समेन यत्' इति लक्षणं विधायोक्तम् 'व्यापनादिलेपनादिरूपतया संभावितम्' इति मम्मटभट्टैः । एवम् 'उन्मेषं यो मम न सहते जातिवैरी निशाया
मिन्दोरिन्दीवरदलदृशा तस्य सौन्दर्यदर्पः । नीतः शान्ति प्रसभमनया वक्रकान्त्येति हर्षा____लमा मन्ये ललिततनु ते पादयोः पद्मलक्ष्मीः ॥ इत्यादौ प्राचीनपद्ये हेतूप्रेक्षायामपि न हर्षरूपं हेतुमात्रमुत्प्रेक्ष्यते लक्ष्मीरूपे विषये । किं तु तद्धेतुकं कार्य लगनातिरूपं विषयितादात्म्येन
यामप्युपपादयति-एवमिति । कस्यापि पद्ये इत्यनेन खीयत्वं निरस्तम् । वैयाकरणरीत्या आह-तस्येति । प्रथमान्तार्थकर्तुरित्यर्थः । तथा च पदार्थः पदार्थेनेति न्यायप्रसिद्धकर्तृत्वादि तु क्रियारूपतया प्रधानमेवेति भावः । एवमग्रेऽपि । अमेदे. नेति । प्रथमान्तार्थे उत्प्रेक्षणमित्यस्यानुषङ्गः । तस्येति । लेपनादिकर्तुरित्यर्थः । वर्षणं चेत्यस्य उत्प्रेक्ष्यत इति शेषः । ननु कुत्र सा अत आह-उत्प्रेक्ष्येति । अत एव निगीर्णवादनुपादानादेव । एवमादौ इत्याद्युदाहरणे । अत्र संमतिं प्रकाशकृत आहअत एवेति । एवमिति । उन्मेषमिति । विकसनमित्यर्थः । नायिका प्रति नायकोक्तिः । यश्चन्द्रः । मम पद्मस्य । हेतूत्प्रेक्षायामपि तत्त्वेनाभिमतायामपि । इदं च
१. शूद्रकप्रणीतमृच्छकटिकस्य प्रथमेऽके पद्यमेतत् 'असत्पुरुषसेवेव दृष्टिविफलतां गता' इत्यस्योत्तरार्धम्.