SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ रसगङ्गाधरः । २८७ सापि प्रत्येकं त्रिविधा – स्वरूपोत्प्रेक्षा, हेतूत्प्रेक्षा, फलोत्प्रेक्षा चेति । तंत्र जातिगुणक्रियाद्रव्यरूपाणां तदभावरूपाणां च पदार्थानां तादात्म्येनेतरेण वा संबन्धेन जातिगुणक्रियाद्रव्यात्मकैर्व्यस्तैः समुच्चितैरुपात्तैरनुपात्तैर्निष्पन्नैर्निष्पाद्यैर्वा निमित्तभूतैर्धर्मैर्यथासंभवं जातिगुणक्रियाद्रव्यात्मकेषु विषयेषूत्प्रेक्षणं खरूपोत्प्रेक्षा । तत्राभेदेन संसर्गेण धर्मिखरूपोत्प्रेक्षा, संसर्गान्तरेण धर्मखरूपोत्प्रेक्षेति चोच्यते । उक्तविधेषु पदार्थेषु प्रागुक्तप्रकाराणां पदार्थानां तथाविधैरेव निमित्तैर्यथासंभवं हेतुत्वेन च संभावनं हेतूत्प्रेक्षा फलोत्प्रेक्षा चोच्यते । एताश्च क्वचिन्निष्पन्नशरीराः क्वचिन्निष्पाद्यशरीराश्चेत्येवमाद्यनल्पविकल्पाः संपद्यन्ते । तथापि दिब्यात्रमुपदर्श्यते । आख्यायिकायां जात्यवच्छिन्नस्वरूपोत्प्रेक्षा यथा ‘तनयमैनाकगवेषणलम्बीकृतजलविजठरप्रविष्ट हिमगिरिभुजायमानाया भगवत्या भागीरथ्याः सखी' इति । अत्र भागीरथ्यां द्रव्ये जातौ वा हिमगिरिसंबन्धी भुजत्वजात्यवच्छिन्नस्तादात्म्येनोत्प्रेक्ष्यते । तत्र च भागीरथीगतानां श्वैत्यशैत्यलम्बत्वजलधिजठरप्रविष्टत्वानां धर्माणां निमिततासिद्धये विषयिहिमगिरिभुजगतत्वमवश्यं संपादनीयम् । तेषां च मध्येऽनुपात्तयोः श्वैत्यशैत्ययोर्हिमगिरिसंबन्धित्वादेव भुजगतत्वं संपन्नम् । इतरयोरपि संपादनाय तनयमैनाकगवेषणं फलमुत्प्रेक्षितम् । तत्साधनताज्ञानस्य लम्बत्वजलधिजठरप्रवेशानुकूलयत्नजनकत्वात् । एवं च विषयिगततादृशगवेषणफलकलम्बत्वजलधिजठरप्रविष्टत्वाभ्यां विष संबन्धादिरूपा । सापीति । एवं च द्वादश भेदाः संपन्ना इति भावः । तत्र तासां तिसृणां मध्ये । द्रव्येति । संज्ञाशब्दाभिप्रायमिदम् । एवमग्रेऽपि । उक्तमेव विशदयति — तत्रेति । तासां स्वरूपोत्प्रेक्षाणां मध्य इत्यर्थः । हेतूत्प्रेक्षाफलोत्प्रेक्षे आहउक्तेति । जात्यादिष्वित्यर्थः । एवमग्रेऽपि । अनल्पेति । बह्नित्यर्थः । तनयेति । हिमगिरेरित्यादिः । लम्बत्वप्रविष्टत्वे भुजविशेषणे । द्रव्ये जातौ वेति । संज्ञाशब्दवाच्यायां जातिशब्दवाच्यायां वेत्यर्थः । तेषां च उक्तधर्माणाम् । इतरयोरपि उपात्तयोर्लम्बत्वतत्प्रविष्टत्वयोरपि । तत्साधन तेति । गवेषणसाधनतेत्यर्थः । यत्नेति । अन्यथा गवेषणासंभवादिति भावः । विषयिगतेति । विषयि हिमगिरिभुजगताभ्यामित्यर्थः । तादृशेति । I ―――
SR No.023028
Book TitleRasgangadhar
Original Sutra AuthorN/A
AuthorJagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1930
Total Pages552
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy