SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ २४४ काव्यमाला। उपचरितो यथा'अविरतं परकार्यकृतां सतां मधुरिमातिशयेन वचोऽमृतम् । अपि च मानसमम्बुनिधिर्यशो विमलशारदचन्दिरचन्द्रिका ॥ अत्रामृतरूपके विषये वचस्युपचरितो मधुरिमातिशयः शब्देनोपात्तः । अम्बुनिध्यादिरूपके च गाम्भीर्याद्यनुपात्तम् । केवलशब्दात्मको यथा 'अकितान्यक्षसंघातैः सरोगाणि सदैव हि । शरीरिणां शरीराणि कमलानि न संशयः ॥ अत्र सरोगशब्दादिरुपात एव प्रतीयते न लुप्तः । आयो बभनो द्वितीयस्तु भमः। अयमेव साधारणो यत्र युक्तिरूपेणोपन्यस्यते तद्धेतुरूपकम् ।। यथा 'पञ्चशाखः प्रभो यस्ते शाखा सुरतरोरसौ । अन्यथानेन पूर्यन्ते कथं सर्वमनोरथाः॥" एवम्- . 'प्राणेशविरहक्लान्तः कपोलस्तव सुन्दरि। मनोभवव्याधिमत्त्वान्मृगाङ्कः खलु निर्मलः ॥' इह श्लेषेण रसचन्द्रयोः कपोले ताद्रूप्यप्रत्ययाविरूपकं निरवयवम् । हेतुस्तु त्रिषु श्लिष्ट एव । एवमन्येऽपि प्रकारा ज्ञेयाः।। इत्यादाविति भावः । चन्दिरेति । चन्द्रेत्यर्थः । उपेति । वस्तुतो मधुरिमातिशयस्य तत्रासत्त्वात् । एवमग्रेऽपि । अनुपात्तमिति । उपचरितमिति शेषः । अङ्कितानीति। व्याख्यातमिदम् । उपात्त एवेति । एवं चैक एव मेदोऽस्य तदाह-लुप्त इति । अनुपात्त इत्यर्थः । अभन्नः पदावान्तरभङ्गशून्यः । भनस्तद्युक्तः । अस्य मेदान्तरमाह'अयमेवेति । केवलशब्दात्मक एवेत्यर्थः । यथेति । राजानं प्रत्युक्तिः । हे राजन् , ते पञ्चशाखः पञ्चाङ्गुलिहस्तोऽसौ कल्पवृक्षस्य शाखैवेत्यर्थः । मृगाङ्कः श्लेषेण चन्द्रो रस. विशेषश्च । तदाह-इहेति । निरवयवमिति । मिथोऽवयवावयविभावाभावादिति भावः। हेतुर्मनोभवेत्यादि बोध्यः । त्रिषु उपमानद्वये उपमेये चेत्यर्थः । श्लिष्ट एवेति। मनसिजातमदनसंबन्धिविशिष्टाधिमत्त्वं दयितायां मनोभवव्याधिरूपक्षयमन्थकत्वं (2)
SR No.023028
Book TitleRasgangadhar
Original Sutra AuthorN/A
AuthorJagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1930
Total Pages552
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy