________________
रसगङ्गाधरः।
२३३
गणनेऽगणनप्रसङ्गात् । एतेन गवां संघातो गोभेदानां कपिलादीनां गणनायां यथा न गण्यते तथा रूपकभेदगणनाप्रस्तुतौ न तत्संघातात्मकं सावयवं गणनीयम्' इति परास्तम् । एवमस्मात्संघातात्मकात्सावयवान्मालारूपकस्य संघातात्मकत्वेनाविशेषेऽप्येकविषयकत्वपरस्परनिरपेक्षत्वाभ्यामस्ति महाविशेषः । निरवयवं केवलं यथा
'बुद्धिर्दीपकला लोके यया सर्व प्रकाशते ।
अबुद्धिस्तामसी रात्रिर्यया किंचिन्न भासते ॥' अत्र रूपकद्वयमपि सापेक्षरूपकसंघातात्मकत्वविरहान्निरवयवम् । मालात्मकत्वविरहाच केवलम् ।
निरवयवं मालारूपकं यथा- . . 'धर्मस्यात्मा भागधेयं क्षमायाः सारः सृष्टेर्जीवितं शारदायाः । । आज्ञा साक्षाद्ब्रह्मणो वेदमूर्तेराकल्पान्तं राजतामेष राजा ॥'
एकविषयकनानापदार्थारोपरूपत्वान्मालारूपमिदम् । परस्परसापेक्षत्वविरहाच निरवयवम् ।
यत्र चारोप एवारोपान्तरस्य निमित्तं तत्परम्परितम् । तत्रापि समर्थकत्वेन विवक्षितस्यारोपस्य श्लेषमूलकत्वे श्लिष्टपरम्परितम् ॥ यथा
'अहितापकरणभेषज नरनाथ भवान्करस्थितो यस्य । तस्य कुतोऽहिभयं स्यादखिलामपि मेदिनीं चरतः ॥' अत्र द्वयोरप्यारोपयोः समर्थ्यसमर्थकभावस्य वस्तुतस्तुल्यत्वेऽप्यहितानामपकरणमेवाहीनां तापकरणमिति श्लेषमूलकेनारोपेण राजनि भेषजतादात्म्यारोपस्य समर्थनीयतया कवेरभिप्रायः । अत एव भङ्गश्लेषनिवेदितोऽभयाभावोऽपि संगच्छते ।
एकविषयत्वेति । एतौ च मालारूपकनिष्ठौ धौं । सावयवखानेकविषयकं परस्परसापेक्षं चेति बोध्यम् । शारदायाः सरखत्याः। साक्षादिति । अप्रतिहतशक्तिवादिति भावः। एकेति । राजेत्यर्थः । द्वयोरपीति । अहिसंबन्धतापकरणमेषजारोपयोरित्यर्थः । 'समर्थनीयतायाम्' इति पाठः। कवेरिति । प्राधान्यादिति भावः । अत एव तस्य