SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ १० काव्यमाला | यथा वा "नगेभ्यो यान्तीनां कथय तटिनीनां कतमया पुराणां संहर्तुः सुरधुनि कपर्दोऽधिरुरुहे । कया वा श्रीभर्तुः पदकमलमक्षालि सलिलैस्तुलालेशो यस्यां तव जननि दीयेत कविभिः |' अत्र कया वा त्वदितरया श्रीभर्तुः पदं सलिलैरक्षालि यस्यामितरस्यां कविभिस्तव तुलालेशोऽपि दीयेतेत्यर्थेन त्वयि पुनः सलिलक्षालितश्रीरमणचरणायां तव तुला दीयेतैवेत्यर्थोऽनन्वयात्मा श्रीगङ्गागतनिरुपमत्वपर्यबसायी इतरपदमहिना व्यज्यते ॥ इति रसगङ्गाधरेऽनन्वय प्रकरणम् । सर्वथैवोपमानिषेधोऽसमाख्योऽलंकारः ॥ अयं चानन्वये व्यङ्ग्योऽपि तच्चमत्कारानुगुणतया रूपकदीपकादावुपमेव न पृथगलंकारव्यपदेशं भजते । वाच्यतायां तु खातन्त्र्येण चमत्कारितया पृथग्व्यपदेशभाक् । यथा 'भूमीनाथ शहाबदीन भवतस्तुल्यो गुणानां गणैतद्भूतभवप्रपञ्च विषये नास्तीति किं ब्रूमहे । धाता नूतनकारणैर्यदि पुनः सृष्टिं नवां भावयेन्न स्यादेव तथापि तावकतुलालेशं दधानो नरः ||' 1 भ्रमरेण न पेदे । न गृहीतमित्यर्थः । नगेभ्यः पर्वतेभ्यः । कपर्दो जटाजूटः । अत्र पूर्वार्धे तादृशव्यञ्जकाभावादाह – अत्र कया वेति । पूर्वोदाहरणे भेदेनेत्युक्त्या तादृशव्यङ्ग्यस्य स्फुटं प्रतीतिः । अत्र त्वस्फुटा । अत एवोदाहरणान्तरदानं ध्वनयन्नाह — इतरपद्महिम्नेति ॥ इति रसगङ्गाधर मर्मप्रकाशेऽनन्वय प्रकरणम् ॥ उपमा निषेध इति । साक्षात्परम्परया वेत्यादिः । तच्चमत्कारेति । तन्निषेधकृतचमत्कारपरिपोषकतयेत्यर्थः । पृथगिति । पृथगलंकारेत्यर्थः । शहाबदीनेति राज्ञो नाम । एतद्भूतेति । अनेन कारणान्तरस्याप्यादौ निर्माणेन तेनाग्रिमसृष्टिकरणयोग्यता सूचिता । अन्यथा तेषामेवासत्त्वादसंगतिः स्पष्टैव । तदाह - नूतनेति । प्रसिद्धपञ्चभूतातिरिक्तस्वनिर्मित कारणैरित्यर्थः । अत एव सृष्टेरपि न तत्वम् । न स्यादेवेत्यर्थ इतीति
SR No.023028
Book TitleRasgangadhar
Original Sutra AuthorN/A
AuthorJagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1930
Total Pages552
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy