SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ रसगङ्गाधरः। इयं च तावविविधा-उक्तधर्मा व्यक्तधर्मा च । उक्तधर्मा तावदनुगाम्यादिभिः प्रागुक्तैर्धमैरनेकधा । अनुगामी धर्मों यथा'निखिले निगमकदम्बे लोकेष्वप्येष निर्विवादोऽर्थः । शिव इव गुरुर्गरीयान्गुरुरिव सोऽयं सदाशिवोऽपि तथा ॥' बिम्बप्रतिबिम्बभावमापन्नो यथा 'रमणीयस्तबकयुता विलसितवक्षोजयुगलशालिन्यः । लतिका इव ता वनिता वनिता इव रेजिरे लतिकाः ॥ अत्र रमणीयत्वविलसितत्वाभ्यां विशेषणाभ्यां युतत्वशालित्वाभ्यां च विशेष्याभ्यां परस्परं वस्तुप्रतिवस्तुभावमापन्नाभ्यां पुटितः स्तबकस्तनरूपः परस्परं बिम्बप्रतिबिम्बभावापन्नो धर्मः । उपचरितो यथा'कुलिशमिव कठिनमसतां हृदयं जानीहि हृदयमिव कुलिशम् । प्रकृतिः सतां सुमधुरा सुधेव हि प्रकृतिरिव च सुधा ॥ केवलशब्दात्मको यथा'अविरतचिन्तो लोके वृक इव पिशुनोऽत्र पिशुन इव च वृकः । भारतमिव सच्चित्तं सच्चित्तमिवाथ भारतं सकृपम् ॥' व्यक्तधर्मो यथा'वारिधिराकाशसमो वारिधिसदृशस्तथाकाशः । सेतुरिव स्वर्गङ्गा वर्गङ्गेवान्तरा सेतुः ॥' अत्रापारत्वादिय॑ज्यमानो धर्मः । एषा सर्वापि स्फुटे वाक्यभेदे प्रपञ्चिता। क्यडादिवलक्षण्यमिव दुष्टमिति चिन्त्यमिदम् । व्यक्तेति । व्यजितेत्यर्थः । निगमेति । वेदसमूहे इत्यर्थः । तथा गरीयान् । विशेषणेति । स्तबकवक्षोजयुगलेत्यादिः । एवमग्रेऽपि । वस्त्विति । वस्तुतस्तयोरेकवादिति भावः। पुटितः संपुटितः । कुलिश. मिति । अत्र पृथिवीनिष्ठकठिनत्वस्य मनसि सुधानिष्ठमाधुर्यस्य प्रकृतावुपचारः । अवीति । निरन्तरं चित्तत्वस्य पिशुनवृत्तित्वेऽपि वृकावृत्तिवात्सकृपत्वस्य साधुचित्त वृत्तित्वेऽपि भारतग्रन्थावृत्तिलाच्छब्द एव समानोऽत्र धर्मः । न चोपचरितत्वं शङ्काम् । एकनिष्ठस्यान्यत्रारोपे तत्त्वेऽपि प्रकृते तत्त्वेनाप्रसिद्धत्वात् । अन्तरा आकाशमध्ये, समु. द्रमध्ये च । आदिना दुर्घटत्वं सेतुखर्गङ्गयोः संगृह्यते । व्यकपदार्थ सूचयितुमाह
SR No.023028
Book TitleRasgangadhar
Original Sutra AuthorN/A
AuthorJagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1930
Total Pages552
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy