SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ रसगङ्गाधरः। १७७ कचिद्धेतुहेतुमद्भावेन । यथा 'खलः कापट्यदोषेण दूरेणैव विसृज्यते । अपायशङ्किभिोकैर्विषेणाशीविषो यथा ॥' अत्र कापट्यं विषं च बिम्बप्रतिबिम्बतां गतं दूरतो विसर्जनेऽनुगामिनि हेतुः। यथा वा 'रूपवत्यपि च क्रूरा कामिनी दुःखदायिनी । अन्तः काटवसंपूर्णा सुपक्केवेन्द्रवारुणी ॥' अत्र रूपवत्त्वदुःखदायित्वयोर्द्वयोरनुगामिनोर्मध्ये क्रौर्यकाटवे बिम्बप्रतिबिम्बभावापन्ने दुःखदायित्वेन सह हेतुहेतुमद्भावेन मिश्रिते । अपरेण तु शुद्धसामानाधिकरण्येन । एवमन्यैरपि व्यामिश्रणं बोध्यम् । प्रकारान्तरं च लक्ष्यानुसारेण सुधीभिः खयमुन्नेतुं शक्यम् । यथा'यथा लतायाः स्तबकानतायाः स्तनावनने नितरां समासि । तथा लता पल्लविनी सगर्वे शोणाधरायाः सहशी तवापि ॥' अत्र स्तनावनम्राहं स्तबकानताया लताया उपमानमसीति गर्व मा विदध्याः । यतः शोणाधराया उपमेयायास्तवापि पल्लविनी लतोपमानं भवतीति वाक्यार्थे यथातथापदप्रतिपाद्या कान्तोपमानिका लतोपमेयिकोपमा निष्पादिका । अस्यां चोपमायां निरूपकतासंबन्धेनोपमानोपमेयगते द्वे उपमे समसदृशशब्दाभ्यां प्रतिपादित बिम्बप्रतिबिम्बभावमापन्ने साधारणधर्मतया स्थिते । तत्र निरूपकतासंबन्धेन प्रधानीभूतोपमोपमान विशेषयोरैक्यप्रतिपत्तये वानयोर्बिम्बप्रतिबिम्बभाव आवश्यक इत्याहुः केचित् । अनु. गामिनि हेतुरितिातयोर्बिम्बप्रतिबिम्बभावं विना भिन्नप्रकरणकत्वेन दूरविसर्जने भेद• प्रतीत्यानुगामित्वमेव न स्यादिति भावः । उपमा निष्पादिकेति । एवं च वाक्यार्थोपस्कारिकेयमुपमेत्यर्थः । बिम्बप्रतिबिम्बभावमापने इति । यद्यपि समसदृशशब्दाभ्यां प्रतिपादितोपमयोर्वस्तुप्रतिवस्तुभाव एव, तथापि तद्विशेषणयोः शोणाधरनायिकास्तबकावनम्रलतयोर्विम्बप्रतिबिम्बभाव आवश्यक इति भावः । तयोश्च बिम्बप्रतिबिम्बभावे सादृश्यानुयोगिलमेव साधारणो धर्म इति ध्येयम् । तत्र तयोरुपमयोर्मध्ये ।
SR No.023028
Book TitleRasgangadhar
Original Sutra AuthorN/A
AuthorJagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1930
Total Pages552
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy