________________
१५८
काव्यमाला। 'त्वयि कोपोपमा भाति सुधांशाविव पावकः' इत्यादावुपमानस्यात्यन्तमसंभावितत्वात्सादृश्यमेव न तावत्प्रतिपत्तुं शक्यम् , चमत्कारस्तु पुनः केन स्यादिति चेत् , कविना हि खण्डशः पदार्थोपस्थितिमता खेच्छया संभावितत्वेनाकारेण चन्द्राधिकरणकमनलं प्रकल्प्य तेन सह साम्यस्यापि कल्पने बाधकाभावात् । कल्पितमसत्सादृश्यं कथं चमत्कारजनकमिति तु न वाच्यम् । परमसुकुमारीभवत्कनकनिर्मिताझ्या मणिमयदशनकान्तिनि
र्वासितध्वान्तायाः कान्ताया भावनया पुरोऽवस्थापिताया आलिङ्गनस्याहादजनकत्वदर्शनात् । उपमानोपमेययोः समत्वस्य लक्षणे प्रवेशाभावान्नात्र दोषलेशोऽपि । अत एव
'स्तनाभोगे पतन्भाति कपोलात्कुटिलोऽलकः ।
शशाङ्कबिम्बतो मेरौ लम्बमान इवोरगः ॥ इत्यादावपि नानुपपत्तिः । परे तु अस्याः कल्पितोपमाया उपमानान्तराभावफलकत्वेनालंकारान्तरतामाहुः । तन्न । सादृश्यस्य चमत्कारितयोपमान्तर्भावस्यैवोचितत्वात् । संनिरूपितत्वस्य लक्षणे प्रवेशाभावात् । उपमानान्तराभावफलकत्वं ह्युपमाविशेषत्वे साधकम् । न तूपमाबहिर्भावे । अथ
'विलसत्याननं तस्या नासाग्रस्थितमौक्तिकम् ।
आलक्षितबुधाश्लेषं राकेन्दोरिव मण्डलम् ॥' इत्यादौ साधारणधर्मस्याभावात्कथमुपमानिष्पत्तिः । बुधमौक्तिकयोरेकैकमात्रवृत्तित्वात् । न चात्र यदि नासाग्रस्थितमौक्तिकं तस्या आनन
नस्य चन्द्राधिकरणकानलस्य । असंभावितत्वेन न तु सत्येन रूपेणेति भावः । कल्पितमिति । यतः कल्पितमत एवासदित्यर्थः । नन्वेवं भवतु तादृशस्यापि सादृश्यस्य चमत्कृतिजनकवं तथापि लक्षणे उपमानोपमेययोर्निवेशेन तयोः सत्यवस्यापेक्षितलेन कथमुक्तस्थले निर्वाहोऽत आह-उपमानोपेति । भावफलकत्वमिति । उपमानान्तराभावस्य फलखेऽपि कविकल्पितसादृश्यकृत एव चमत्कार इति नव्यमतेऽपि दोषः । आलक्षितेति । आलक्षिताश्लिष्टबुधमित्यर्थः। तथा पाठस्तूचितः। अत एव वक्ष्यतिवुधमौक्तिकयोरिति । कथमिति । तद्धर्मोपस्थितेः कारणवस्य तत्र प्रागभिहितला