________________
रसगङ्गाधरः।
१०५ विनाशसंधिशबलतानां तत्संबन्धिनां भावानां च समानायां चर्वणाविषयतायां न प्राधान्यं विनिगन्तुं शक्यते । तथापि स्थितौ भावेषु प्रधानतायाः क्लृप्तत्वात् , भावशान्त्यादिष्वपि तेष्वेव शान्तिप्रतियोगित्वादिभिर्व्यज्यमानेषु तस्याः कल्पयितुमौचित्यात् । किं च यदि भावशान्त्यादौ भावो न प्रधानम् , किं तु तदुपसर्जनकशान्त्यादिरेवेत्यभ्युपेयते तदा व्यज्यमानभावेष्वभिहिततत्पशमादिषु काव्येषु भावप्रशमादिध्वनित्वं न स्यात् । तथाहि । 'उपसि प्रतिपक्षनायिकासदनादन्तिकमञ्चति प्रिये । सुदृशो नयनाजकोणयोरुदियाय त्वरयारुणयुतिः ॥' अत्रोत्पूर्वकेणैतिना भावोदयस्य वाच्यतयैव प्रत्यायनात्, उदयस्य वाच्यत्वेऽपि भावस्यावाच्यत्वाद्धनित्वं सुस्थमिति चेत्, प्रधानस्य व्यपदेशानौपयिकत्वेऽप्रधानकृतव्यपदेशानुपपत्तेः । असन्मते तूत्पत्तेर्वाच्यत्वेऽप्युत्पत्त्यवच्छिन्नस्यामर्षस्य प्रधानस्यावाच्यत्वाद्युक्त एव भावोदयध्वनिव्यपदेशः । एवं व्यज्यमानभावप्रतियोगिकस्य प्रशमस्य वाच्यत्वे भावशान्तिध्वनित्वं न स्यात् । यथा
'क्षमापणैकपदयोः पदयोः पतति प्रिये ।
शेमुः सरोजनयनानयनारुणकान्तयः ॥' ननु शब्दवाच्यानां प्रशमादीनामरुणकान्त्यैवान्वयात् , अरुणकान्तिप्रशमादेरेव वाच्यत्वं पर्यवसितम् । न तु तादृशाशमादिव्यङ्ग्यस्य रोषप्रशमादेः । व्यङ्ग्यव्यञ्जकभेदस्यावश्यकत्वात् । न चारुण्यव्यङ्गयरोषस्यैव वाच्यीभूतप्रशमाद्यन्वय इति वाच्यम् । वाच्यव्यङ्ग्यप्रतीत्योरानुपूर्येण
तद्विषये । तेष्वेव भावेष्वेव । तस्याः प्रधानतायाः । ननु तत्र तत्कृतश्चमत्कारः, अत्र खेतत्कृत इति वैषम्यमत आह-किं चेति । सामान्येनोक्तमर्थ विशिष्योपपादयतितथा हीति । अञ्चतीति सप्तमी । उत्पूर्वकेणैतिनेति । उदुपसर्गपूर्वकेणेण्धातुनेत्यर्थः । शङ्कते-उदयेति । अनौपयिकलेप्रधानेत्यत्राकारप्रश्लेषः । उदयस्थले दोषं दत्त्वा शान्तिस्थले तमाह-एवमिति । एकपदयोरसाधारणस्थानयोः । पततीति सप्तमी । उभयत्र शङ्कते-नन्विति । वाच्यान्वयेति । सकलपदानामिति शेषः ।