SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ रसगङ्गाधरः 1 १०३ इह तादृशप्रियवचनश्रवणं विभावः । नयन कोणगतशोणरुचेर्नाशः, तदभि'व्यक्तः प्रसादो वानुभावः । उत्पत्तिकालावच्छिन्नो रोषनाशो व्यङ्ग्यः । तथाभावोदयो भावस्योत्पत्तिः ॥ उदाहरणम्- 'वीक्ष्य वक्षसि विपक्ष कामिनीहारलक्ष्म दयितस्य भामिनी । अंसदेशवलयीकृतां क्षणादाचकर्ष निजबाहुवल्लरीम् ॥' अत्रापि दयितवक्षोगतविपक्षकामिनीहारलक्ष्मदर्शनं विभावः । प्रियांसदेशवलयीकृतनिजबाहुलताकर्षणमनुभावः । रोषादयो व्ययाः । यद्यपि भावशान्तौ भावान्तरोदयस्य भावोदये वा पूर्वं भावशान्तेरावश्यकत्वान्नानयोर्विविक्तो व्यवहारस्य विषयः, तथापि द्वयोरेकत्र चमत्कार - विरहात्, चमत्काराधीनत्वाच्च व्यवहारस्य अस्ति विषयविभागः । एवम् — भावसंघिरन्योन्यानभिभूतयोरन्योन्याभिभावनयोग्ययोः सामा नाधिकरण्यम् ॥ उदाहरणम् 'यौवनोद्गमनितान्तशङ्किताः शीलशौर्यबल कान्तिलोभिताः । संकुचन्ति विकसन्ति राघवे जानकीनयननीरजश्रियः ॥' अत्र भगवद्दाशरथिगतस्य लोकोत्तरयौवनोद्गमस्य तादृशस्यैव शीलशौर्यादेश्व दर्शनं विभावः । नयनगतसंकोचविकासावनुभावः । व्रीडौ - त्सुक्ययोः संधिर्व्यङ्ग्यः । तथा— भावशबलत्वं भावानां बाध्यबाधकभावमापन्नानामुदासीनानां वा व्यामिश्रणम् ॥ एकचमत्कृतिजनकज्ञानगोचरत्वमिति यावत् । वच्छिन्न एव । मुदिरालिर्मेघपङ्किः । नाशस्य साक्षात्तत्कार्यत्वाभावादाह - तदभीति । ननु ततः किमत आह- चमत्कारेति । एवं च यत्कृतो यत्र चमत्कारस्तत्र तद्य - वहार इति भावः । सामानाधिकरण्यमिति । एकदेशवृत्तित्वविशिष्टैककालवृत्तित्वरूपमित्यर्थः । सूक्ष्मभेदस्त्वकिंचित्कर इति भावः । शबलतायां त्वेकदेशवृत्तित्वरूपमेव सामानाधिकरण्यमिति विशेषः । तादृशस्यैव लोकोत्तरस्यैव । एकेति । एकं यत्ताहरां
SR No.023028
Book TitleRasgangadhar
Original Sutra AuthorN/A
AuthorJagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1930
Total Pages552
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy