________________
उदाहरणम्
रसगङ्गाधरः ।
'अहितत्रत पापात्मन्मैवं मे दर्शयाननम् । आत्मानं हन्तुमिच्छामि येन त्वमसि भावितः ॥ '
एषा भगवदनुरक्तिविघटनोपायमपश्यतः प्रह्लादं प्रति हिरण्यकशिपोरुक्तिः । भगवद्वेषोत्थापितः पुत्रद्वेषोऽत्र विभावः । आत्मवधेच्छा परुषवचनं चानुभावः । न चामर्ष एवात्र व्यज्यत इति वाच्यम् । सदैव भगवदनुरागिण प्रह्लादे हिरण्यकशिपोरमर्षस्य चिरकालसंभृतत्वेनात्मव'घेच्छाया इदं प्रथमतानुपपत्तेः । इदंप्रथमकार्यस्य चेदं प्रथमकारणप्रयोज्यतया प्राचीनचित्तवृत्तिविलक्षणाया एव चपलताख्यचित्तवृत्तेः सिद्धेः । न चामर्षप्रकर्ष एवात्मवधेच्छादिकारणमभिव्यज्यतामिति वाच्यम् । प्रकर्षस्यापि खाभाविकविलक्षणलक्षणताया आवश्यकतया तस्यैव चपलतापदार्थत्वात् ।
नीच पुरुषेष्वाक्रोशनाधिक्षेपव्याघिताडनदारिश्रेष्ट विरहपरसंपद्दर्शनादिभिः, उत्तमेषु त्ववज्ञादिभिर्जनिता विषयद्वेषाख्या रोदनदीश्वासदीमुखतादिकारिणी चित्तवृत्तिर्निर्वेदः ॥
उदाहरणम्
'यदि लक्ष्मण सा मृगेक्षणा न मदीक्षासरणिं समेष्यति । अमुना जडजीवितेन मे जगता वा विफलेन किं फलम् ॥' नित्यानित्यवस्तुविवेकजन्यत्वाभावान्नासौ रसव्यपदेशहेतुः । देवादिविषया रतिर्यथा —
'भवद्वारि क्रुध्यज्जयविजयदण्डाहतिदलकिरीटास्ते कीटा इव विधिमहेन्द्रप्रभृतयः ।
न हितं व्रतं भगवदनुरक्तिरूपं यस्य तत्संबुद्धिः । अत एव पापात्मन्प्रहाद । भावित इति । उत्पादित इत्यर्थः । अवज्ञादिभिरिति । आदिना विरहादयः । यदीति । भगवतो रामस्येयमुक्तिः । सा सीता । जडेति । अचेतनजीवितेनेत्यर्थः । विफलेन विरुद्धफलेन । नन्वत्र निर्वेदस्थायिकशान्तरसध्वनित्वमेवात आह-- नित्येति । असौ निर्वेदः । भवदिति । विष्णुं प्रति भक्तोक्तिः । हे क्षपितमुर मुरजित, जयविजयौ
९ रस०