SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ हेमप्रभा. ॥ ५० ॥ नास्ति तत्रेति शब्दाध्याहारो द्रष्टव्यः । अनिर्धना निर्धना इत्युपछताः । श्रेणिकृता इत्यादौ क्रियाकारकसम्बन्धमात्रं न विशेषणविशेष्यभाव इति वचनम् । तं नत्रादिभिन्नैः ।। ३ । १ । १०५ ।। एकार्य समासस्तत्पुरुषः कर्मधारयश्च स्यात् । कृताकृतम् । अशितानशितम् । इष्टः क्तावयवत्वाद्विकारस्य त्वेकदेशविकृतानन्यत्वान्न भेदकत्वम् । तेन क्लिष्टाक्लिशितम् । आदिग्रहणात् पीतावपीतम् । क्तमिति किम् । कर्त्तव्यमकर्त्तव्यं च । नमादिभिन्नैरिति किम् । कृतंमकृतम् । कृताकृतादि ईषदसमाप्तिद्योतकस्य नमः प्रयोगात् तदादयोऽपीषदसमाप्तियोतका एवापादयो ग्राह्याः । नमादिभिरेव भिन्नैरित्यबधारणात् कृतं चाविहितं चेत्यादौ न समासः । अवयवधर्मेण समुदायव्यपदेशात् कृताकृतादिष्वैकार्थ्यम् । क्रियाशब्दत्वादनियमेन पूर्वापरनिपाते प्राप्ते पूर्वनिपातनियमाथै वचनं तेनाकृतकृतमित्यादि न । सेद् नानिटा ।। ३ । १ । १०६ ॥ क्तान्तं नमादिभिन्नेन न समस्यते । पूर्वापवादः । क्लिशितमक्लिष्टम् । इट्ग्रहणमर्थभेदाहेतोर्विकारस्योपलक्षणम् । तेन शितमशातम् । विन्नावित्तमिति तु क्तादेशोऽषि इति परे समासे नत्वस्यासत्त्वाद् भविष्यति । सेडिति किम् । कृताकृतम् । अनिटेति किम् । अशितानशितम् ॥ सन्महत्परमोत्तमोत्कृष्टं पूजायाम् ॥ ३ । १ । १०७ ॥ पूज्यवचनैः समासस्तत्पुरुषः कर्मधारयश्च । सत्पुरुषः । महापुरुषः । जातीयैकार्थेऽच्चेरिति डाः । परमपुरुषः । उत्तमपुरुषः । उत्कृष्टपुरुषः । पूजायामिति किम् । सन्घटोऽस्तीत्यर्थः । महाजन इत्यादौ तु न पूजा समासस्तु बहुलवचनाद् भविष्यति । पूजायामेवेति नियमार्थ पूर्वनिपातव्यवस्थार्थञ्च । तेन सच्छुक्ल इत्यादावनियमेन न पूर्वनिपातः । परमजरनित्यादौ च स्पर्धे परमिति यथापरं पूर्वनिपातश्च सिद्धः ॥ वृन्दारकनागकुञ्जरैः ।। ३ । १ । १०८ ।। पूजायां पूज्यवाच्येकार्थे समासस्तत्पुरुषः कर्मधारयश्च । गोदृन्दारकः । गोनागः । गोकुञ्जरः । वृन्दारकादीनां जातिशब्दत्वेऽप्युपमानात् पूजावगतिः । पूजायामिति किम् । सुसीमो नागः । पूजायामेवेति नियमार्थं साम्योक्तावपि विध्यर्थे च वचनम् । तेन गोनागो बलवानिति सिद्धम् ॥ कतरकतमौ जातिप्रश्ने ॥ ३ । १ । १०९ ॥ जासर्थेन समासस्तत्पुरुषः कर्मधारयथ । कतरकठः समासप्रकरणम्. ॥ ५० ॥
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy