SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ हेमचन्द्रं वैयाकरणाः । उपोमास्वातिं सङ्ग्रहीतारः । उपजिनभद्रगणिक्षमाश्रमणं व्याख्यातारः । उपयशोविजयोपाध्यायं नव्यतार्किकाः । तस्मादन्ये हीना इत्यर्थः । कर्मणि ॥ २ । २ । ४० ॥ नाम्नो द्वितीया । कटं करोति । इत्यादि । क्रि यते कटः । कृतः कटः । शत्यः पटः । आरूढवानरो वृक्ष इत्यादिषु त्यादिकृत्तद्धितसमासैरभिहितत्वात् लोकशास्त्रयोश्चाभिहितेऽर्थे शब्दप्रयोगायोगान्न भवति । कटं करोति । भीष्ममुदारं दर्शनीयमित्यादिषु तु भीष्मत्वादियुक्तस्य कटस्य कर्मत्वं प्रतिपाद्यं । न च जातिशब्दाः सम्भविनोऽपि गुणान् प्रतिपादयितुं समर्था इति तत्प्रतिपादनाय यथा भीष्मादिशब्दप्रयोगस्तथा तेभ्यो द्वितीयापि । नहि सामान्यवाचिनः कटशब्दादुत्पन्ना द्वितीया भीष्मादीनामनियताधाराणां गुणानां कर्मस्वमभिधातुं शक्नोति । यदि वा कटोऽपि कर्म भीष्मादयोऽपि । तत्र यद्यत् करोति ना व्याप्तुमिष्टं तत्सर्वं द्रव्यं गुण कर्मेति पृथक् कर्मत्वे प्रत्येकं द्वितीया पश्चात्वेकवाक्यतया विशेषणविशेष्यभाव इति । अथवा द्रव्यस्य क्रियासु साक्षादुपयोगात् अस्तु कस्यैव कर्मत्वं, भीष्मादीनां तु न केवला प्रकृतिः प्रयोक्तव्येति नियमादविभक्तिकानाममयोगाईत्वात् एकविभक्तिमन्तरेण च सामानाधिकरण्यविशेषणत्वायोगात्, यथेश्वरसुहृदां स्वयं निर्धनत्वेऽपि तदेकयोगक्षेमत्वात् तद्धनेनैव फलभात्वं भवत्येवमकर्मणामपि कटकर्मत्वेनैव कर्मत्वात् द्वितीया । कृतः कटो भीष्म उदारो दर्शनीय इत्यत्र तु करोतेरुत्पद्यमानः क्तो यस्य यस्य तया क्रियया सम्बन्धस्तस्य तस्य साकल्येन कर्मत्वमभिदधातीति कचिदपि द्वितीया न । कृतं पश्येत्यादौ तु कर्मादिसामान्यं कृद्भिरभिहितं तत्रापि अभिहितः सोर्थोऽन्तर्भूतो नामार्थः सम्पन्न इति कर्मादिशक्तियुक्तं द्रव्यं क्तायन्तैरभिधीयते । यथेदं कर्मेति । तत्र यासौ स्वरूपकालभित्रायां क्रियायां सव्यापारतया कर्मादिरूपता तदभिधानाय यथायथं द्वितीयादयो भवन्ति । यत्र पुनरेकद्रव्याधारा प्रधानाप्रधानक्रियाविषयानेका शक्तिस्तत्र प्रधानविषयायां शक्तौ प्रत्ययैरभिहितायामप्रधानक्रियाविषया शक्तिः प्रधानशक्त्यनुरोधात् अभिहितवत्प्रकाशमाना विभक्त्युपपत्ती निमित्तं न भवति, यथौदनः पक्त्वा भुज्यते देवदत्तेन । ग्रामो गन्तुमिष्यते देवदत्तेनेत्यत्र तु द्वितीयाचतुर्थ्यो न
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy