________________
॥ अथ कारकाणि॥
कार
इमप्रभा
२९॥
काणि
॥क्रियाहेतुः कारकम् ॥२॥२॥१॥ कादि । तच्च द्रव्याणां खपराश्रयसमवेतक्रियानिर्वक सामर्थ्य | शक्तिरित्याचक्षते । एतेन शक्तिमत्कारकमित्यपास्तम् । मणिसमवधाने अग्नेर्दाहकत्वाभावात् । शक्तिश्च सहभूर्याबद्रव्यभाविनी क्रियाकाल एवाभिव्यज्यते । अन्वर्थाश्रयणाच्च निमित्तत्वमात्रेण हेत्वादेर्न कारकसंज्ञा । तेनानेन वास इत्यत्र न समासः॥ स्वतन्त्रः कर्ता ॥२।२।२॥ क्रियाहेतुः क्रियासिद्धौ स्वप्रधानो यः स कर्ता । देवदत्तः पचति । देवदत्तेन पाचयति चैत्रः । स्थाली पचति । मैत्रेण कृतः॥ कर्तुाप्यं कर्म ॥२॥२॥३॥ कर्ता क्रियया यद्विशेषेणातुमिष्यते तत्कारकं व्याप्यं कर्म च स्यात् । प्रसिद्धस्यानुवादेनापसिद्धस्य विधानं लक्षणार्थः । तत्रेधा निवर्त्य विकार्य पाप्यं च । तत्र यदसज्जायते जन्मना वा प्रकाश्यते तन्निवय॑म् । कटं करोति । पुत्रं प्रसूते । प्रकृत्युच्छेदेन गुणान्तराधा- || नेन वा यद्विकारमापाद्यते तद्विकार्यम् । काष्ठं दहति । काण्डं लुनाति । यत्र तु क्रियाकृतो विशेषो नास्ति तत्माप्यम् ।। आदिवं पश्यति । अस्य तु त्रिविधस्यापि अवान्तरव्यापारा निवृत्तिविकृत्याभासोपगमनानि । त्रिविधमप्येतत् त्रिविधम् । इष्टमनिष्टमनुभयं च । शिष्यं करोति । अहिं लश्यति । वृक्षच्छायां लयति । पुनस्तत्कर्म द्विविधं प्रधानेतरभेदात् तच्च द्विकर्मकेषु दुहिभितिरुधिपच्छिचिग्गशास्वर्थेषु याचिजयतिप्रभृतिषु नीहरूषवहेषु च भवति । याचिरनुनयार्थस्तेन भिक्ष्यर्थाद्भेदः । गां दोन्धि पयः। यदर्थ क्रियारभ्यते तत्पधानं तत्सिद्धथै यत्क्रियया व्याप्यते गवादि तदप्रधानम् । मधानाविवज्ञायां गवादेरेव प्राधान्यम् । आश्चर्यों गा दोहोऽगोपेन । तत्र दुहादीनाममधाने कर्मणि कर्मजः प्रत्ययो भवति । गौद्यते पयो मैत्रेण । न्यादीनां तु प्रधाने कर्मणि । नीयते नीता वा ग्राममजा । गत्यर्थानामकर्मकाणां तु णिगन्तानामुभयत्र । बोध्यते शिष्यो धर्मम् । बोध्यते शिष्यं धर्म इति वा । भोज्यतेऽतिथिमोदनः। भोज्यतेऽतिथिरोदनम् । पाठ्यते
॥२९
॥